शांतिपर्व

अध्यायः ३५८

Santi Parva (Sanskrit) · Adhyaya 358
अक्षर का आकार

जनमेजय उवाच।

अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः।
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम्।।

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः।
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः।।

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्।।

नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः।
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम्।।

सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः।।

तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा।।

एकान्तिनां च का चर्या कदा चोत्पादिता विभो।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे।।

वैशंपायन उवाच।

समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे।
अर्जुने विमनस्के च गीता भगवता स्वयम्।।

आगतिश्च गतिश्चैव पूर्वं ते कथिता मया।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः।।

संमितः सामवेदेन पुरैवादियुगे कृतः।
धार्यते स्वयमीशेन राजन्नारायणेन ह।।

एतदर्थं महाराज पृष्टः पार्थेन नारदः।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः।।

गुरुणा च मयाऽप्येव कथितो नृपसत्तम।
यथा तत्कथितं तत्र नारदेन तथा शृणु।।

यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम्।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्।।

तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे।।

वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे।
वैखानसेभ्यः सोपस्तु ततः सोऽन्तर्दधे पुनः।।

यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप।
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः।।

नारायणात्मको राजन्रुद्राय प्रददौ च तम्।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप।।

वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत्।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया।।

तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप।।

सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्।
तपसा वै सुतप्तेन दमेन नियमेन च।।

त्रिः परिक्रान्तवानेतत्सुपर्णो धर्मसुत्तमम्।
यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत।।

ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः।।

वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः।।

तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम्।
अन्तर्दधे ततो भूयो नारायणसमाहृतः।।

यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु।।

जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम्।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम्।।

अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः।।

सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत।।

धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि।।

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्।।

आरण्यकेन सहितं नारायणमुखोद्गतम्।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे।।

तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम्।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्।।

ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान्।।

ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः।।

तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्।
पूजयामास देवेशं हरिं नारायणं प्रभुम्।।

धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः।
अध्यापयामास तदा लोकानां हितकाम्यया।।

ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः।।

ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्।
दिशापालं सुधर्माणमध्यापयत भारत।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः।।

नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः।।

तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा।
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप।।

सनत्कुमारादपि च वीरणो वै प्रजापतिः।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान्।।

वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे।।

कुक्षिपालाय च ददौ विशालाय च धर्मिणे।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः।।

अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः।।

गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि।
अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप।।

बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम्।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः।।

ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्।
अन्तर्दधे ततो राजन्नेष दर्मः प्रभो हरेः।।

यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप।
तत्रैष धर्मः कथितः स्वयं नारायणेन ह।।

पितामहाय शुद्धाय युगादौ लोकधारिणे।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ।।

ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः।।

त्रेतायुगादौ च ततो विवस्वान्ममवे ददौ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ।।

इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप।।

यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम।
कथितो हरिगीतासु समासविधिकल्पितः।।

नारदेन सुसंप्राप्तः सरहस्यः ससंग्रहः।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप।।

एवमेव महान्धर्मे आद्यो राजन्सनातनः।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा।।

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः।।

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते।।

हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः।।

मनश्च प्रथितं राजन्पञ्चन्द्रियसमीरणम्।
एष लोकनिधिः श्रीमानेषु लोकविसर्गकृत्।।

अकर्ता चैव कर्ता च कार्यं कारणमेव च।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः।।

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः।।

एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः।।

अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः।
भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता।।

एवं स भगवान्व्यासो गुरुर्मम विशांपते।
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः।।

ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः।।

देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्।
यत्र चैकान्तिनो यान्ति नारायणपरायणाः।
`तदेव परमं स्थानं मुक्तानां केवलं भवेत्।।'

जनमेजय उवाच।

एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम्।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः।।

वैशंपायन उवाच।

तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः।
सात्विकी राजसी चैव तामसी चैव भारत।।

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः।।

अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम्।
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः।।

मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्।
एकान्तभक्तः सततं नारायणपरायणः।।

मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः।।

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः।
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः।।

साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः।
नारायणात्मके मोक्षे ततो यान्ति परां गतिं।।

नारायणेन दृष्टस्तचु प्रतिबुद्धो भवेत्पुमान्।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते।।

राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते।
तदात्मकं हि पुरुषं जायमानं विशांपते।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्।।

पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः।
रजसा तपसा चैव मानसं समभिप्लुतम्।।

कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम।
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः।।

जनमेजय उवाच।

कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्।
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम्।।

वैशंपायन उवाच।

सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः।
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम्।।

एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च।
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते।।

एष एकान्तिनां धर्मो नारायणपरात्मकः।।

यथा समुद्रात्प्रसृता जलौघा
स्तमेव राजन्पुनराविशन्ति।
इमे तथा ज्ञानमहाजलौघा
नारायणं वै पुनराविशन्ति।।

एष ते कथितो धर्मः सात्वतो यदुबान्धव।
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत।।

एवं हि स महाभागो नारदो गुरवे मम।
श्वेतानां यतिनां चाह एकान्तगतिमख्याम्।।

व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः।।

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम।
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः।।

कृष्ण एव हि लोकानां भावनो मोहनस्तथा।
संहारकारकश्चैव कारणं च विशांपते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
अष्टपञ्चाशदधिकत्रिशततमोऽध्यायः।। 358।।