शांतिपर्व

अध्यायः ३५५

Santi Parva (Sanskrit) · Adhyaya 355
अक्षर का आकार

वैशंपायन उवाच।

कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्।।

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः।
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते।।

त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम्।
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते।।

नारद उवाच।

त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि।
दैवतं च परो ज्ञेयः परमात्मा सनातनः।।

ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्।
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः।।

मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्।
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः।।

यजामि वै पितॄन्साधो नारायणविधौ कृते।
एवं स एव भगवान्पिता माता पितामहः।।

इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः।
श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन्।।

वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः।
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम्।।

नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः।
पुत्राश्च पितरश्चैव परस्परमपूजयन्।।

त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति।
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा।।

नरनारायणावूचतुः।

इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्।
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः।।

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः।
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः।।

प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ।
दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः।।

स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद।
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि।।

संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः।
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि।।

प्रोक्ष्यापसव्यं देवेशः प्राङ्भुखः कृतवान्स्वयम्।
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्।।

वृषाकपिरुवाच।

अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम्।
तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान्।।

दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्।
आश्रिता धरणीं पीड्य तस्मात्पितर एव ते।।

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे।
भवन्तु पितरो लोके मया सृष्टाः सनातनाः।।

पिता पितामहश्चैव तथैव प्रपितामहः।
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः।
नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं

अहमेव पिता लोके अहमेव पितामहः।
पितामहपिता चैव अहमेवात्र कारणम्।।

इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः।
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्।
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः।।

एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः।
लभन्ते सततं पूजां वृषाकपिवचो यथा।।

ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिर्थीस्तथा।
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा।।

कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते।
अन्तर्गतः स भगवान्सर्वसत्वशरीरगः।।

समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः।
महान्महात्मा सर्वात्मा नारायण इति श्रुतिः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः।। 355।।