शांतिपर्व
अध्यायः ३५६
वैशंपायन उवाच।
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान्।।
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे।
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम्।।
तावपि ख्यातयशसौ नरनारायणावृषी।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम्।।
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम्।।
नैव तस्यापरो लोको नायं पार्थिवसत्तम।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्।।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्।।
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित्।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः।।
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः।
तेनैतत्कथितं तात माहात्म्यं परमात्मनः।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ।।
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप।।
एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम।
कथितो हरिगीतासु समासविधिकल्पितः।।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्।।
वर्ततां ते महायज्ञो यथासंकल्पितस्त्वया।
संकल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः।।
सौतिरुवाच।
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्।।
नारायणीयमाख्यानमेतत्ते कथितं मया।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु।।
नारदेन पुरा यद्वै गुरवे तु निवेदितम्।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः।।
स हि परमर्षिर्जनभुवनपतिः
पृथुधरणिधरः श्रुतिविनयपरः।
शमनियमनिधिर्यमनियमपरो द्विजवर
सहितस्तव च भवतु गतिर्हरिरमरहितः।।
भयदो मखभागहरोस्तु शरणं स ते।।
त्रिगुणो विगुणश्चतुरात्मधरः
पूर्तेष्टयोश्च फलभागहरः।
विदधातु नित्यमजितोऽतिचलो
गतिरात्मवतां सुकृतिनामृषीणाम्।।
तं लोकसाक्षिणमजं पुरुषं पुराणं
रविवर्णमीश्वरं गतिं बहुशः।
प्रणमध्वमेकमतयो यतः
सलिलोद्भवोपि तमृषिं प्रणतः।।
स हि लोकयोनिरसृतस्य पदं
सूक्ष्मं परायणमचलं हि पदम्।
तत्साङ्ख्ययोगिभिरुदाहृतं तं
बुद्ध्या यतात्मभिरिदं सनातनम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
षट्पञ्चाशदधिकत्रिशततमोऽध्यायः।।