शांतिपर्व
अध्यायः ३५४
नरनारायणावूचतुः।
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयंप्रभुः।
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम्।।
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः।
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम्।।
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते।
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम।।
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः।
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्वितोत्तम।।
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः।
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता।।
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः।
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते।।
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिताद्रसः।
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च।।
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्।
येन संयुज्यते सूर्यस्ततो लोके विराजते।।
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्।
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ।।
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः।
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्।।
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः।
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः।।
सद्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम्।
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक्।।
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम।।
सर्वलोके तमोहन्ता आदित्यो द्वारमुच्यते।
` ज्वालामाली महातेजा येनेदं धार्यते जगत्।।'
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित्।
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत।।
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः।
मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत।।
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः।
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह।।
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा।
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः।।
समाहितमनस्काश्च नियताः संयतेन्द्रियाः।
एकान्तभावोपगता वासुदेवं विशन्ति ते।।
आवामपि च धर्मस्य गुहे जातौ द्विजोत्तम।
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ।।
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः।
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज।।
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम।
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यगनुत्तमम्।।
`स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः।'
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन।।
समागतो भगवता संकल्पं कृतवांस्तथा।
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे।।
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्।
सर्वं स ते कथितवान्देवदेवो महामुने।।
वैशंपायन उवाच।
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे च वर्ततोः।
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः।।
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून्।
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे।।
अवसत्स महातेजा नारदो भगवानृषिः।
तावेवाभ्यर्चयन्देवौ नरनारायणौ च तौ।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
चतुःपञ्चादशधिकत्रिशततमोऽध्यायः।। 354।।