शांतिपर्व

अध्यायः ३५३

Santi Parva (Sanskrit) · Adhyaya 353
अक्षर का आकार

शौनक उवाच।

सौते सुमहदाख्यानं भवता परिकीर्तितम्।
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः।।

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्।
न तथा फलदं सौते नारायणकथा यथा।।

पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम्।
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम्।।

दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः।
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः।।

दृष्टवान्नारदो यत्तु देवं नारायणं हरिम्।
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज।।

यदृष्टवाञ्जगन्नाथमनिरुद्दतनौ स्थितम्।
यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ।
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे।।

सौतिरुवाच।

तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै।
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक।।

कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम्।
परिपप्रच्छ राजेन्द्रः पितामहपितामहम्।।

जनमेजय उवाच।

श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा।
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम्।।

बदर्याश्रममागम्य समागम्य च तावृषी।
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः।।

इदं शतसहस्राद्धि भारताख्यानविस्तरात्।
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्।।

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा।
अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा।
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा।।

तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्।
स ईशो भगवान्देवः सर्वभूतात्मभावनः।।

अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम।
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः।।

ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्।
न ततोऽस्ति परं मन्ये पावतं दिवि चेह च।।

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्।
न तथा फलदं चापि नारायणकथा यथा।।

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्।
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्।।

न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः।
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्।।

न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु।
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा।।

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः।
हिताय श्रेयसे चैव येषामासीज्जनार्दनः।।

तपसाऽप्यथ दुर्दर्शो भगवाँल्लोकपूजितः।
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्।।

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः।
`दृष्टवान्यो हरिं देवं नारायणमजं विभुम्।।'

न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम्।
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः।।

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्।
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम्।।

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः।
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने।।

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः।
बदरीमाश्रमं प्राप्य समागम्य च तावृषी।
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह।।

श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि।
किमब्रूतां महात्मानौ नरनारायणावृषी।
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि।।

`सौतिरुवाच।

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा।
शशास शिष्यमासीनं वैशंपायनमन्तिके।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि।।

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा।
आचचक्षे ततः सर्वमितिहासं पुरातनम्।।'

वैशंपायन उवाच।

नमो भगवते तस्मै व्यासायामिततेजसे।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्।।

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्।
निवृत्तो नारदो राजस्तरसा मेरुमागमत्।
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना।।

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्।
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः।।

मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम्।
निपपात च खात्तूर्णं विशालां बदरीमनु।।

ततः स ददृशे देवौ पुराणावृषिसत्तमौ।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ।।

तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ।।

जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ।
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ।।

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ।
स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ।
आतपत्रेण सदृशे शिरसी देवयोस्तयोः।।

एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ।
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः।।

स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा।
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ।।

सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः।
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ।।

इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणाम्।
स चोपविविशे तत्र पीठे कुशमये शुभे।।

ततस्तौ तपसां वासौ यशसां तेजसामपि।
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम्।।

यश्चान्नारदमव्यग्रौ पाद्यार्ध्याभ्यामथार्चतः।
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ।।

तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत।
भ्राज्याहुतिमहाञ्वालैर्यज्ञवाटो यथाऽग्निभिः।।

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्।।

अपीदानीं स भगवान्परमात्मा सनातनः।
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा।।

नारद उवाच।

दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः।
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः।।

अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ।।

यैर्लक्षणैरुपेतः स हरिरव्यरक्तरूपधृत्।
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्।।

दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः।
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना।।

को हि नाम भवेत्तस्य तेजसा यशसा श्रिया।
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्।।

तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसंज्ञितः।
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा।।

तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः।
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्।।

तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः।
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः।।

रमते सोऽर्च्यमानो हि सदा भागवतप्रियः।
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः।।

स कर्ता कारणं चैव कार्यं चातिबलद्युतिः।
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः।।

तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत्।
तेज इत्यभिविख्यातं स्वयं भासावभासितम्।।

शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना।
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः।।

न तत्र सूर्यस्तपति न सोमोऽभिविराजते।
न वायुर्वाति देवेशे तपश्चरति दुश्चरम्।।

वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत्।
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्भुखः।।

साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम्।
यद्ब्रह्म ऋषयश्चैव स्वयं पशुपतिश्च यत्।।

शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः।
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्पयश्च ते।।

हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते।
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः।।

याः क्रियाः संप्रयुक्ताश्च एकान्तगतबुद्धिभिः।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयं।।

न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः।
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः।।

इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना।
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः।।

आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः।। 353।।