शांतिपर्व
अध्यायः ३४४
भीष्म उवाच।
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते।।
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः।।
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजं।।
स राजा भावितः पूर्वं दैवेन विधिना वसुः।
पालयामास पृथिवीं दिवमाखण्डलो यथा।।
तस्य यज्ञो महानासीदश्वमेधो महात्मनः।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह।।
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः।।
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू।
ऋषिर्मोधातिथिश्चैव ताण्ड्यश्चैव महानृषिः।।
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः।
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः।।
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः।।
संभूताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ।
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्।।
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः।।
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः।
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित्।।
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्।
अदृश्येन हृतो भागो देवेन हरिमेधसा।।
बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः।
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत्।।
उवाच चोपरिचरं मया भागोऽयमुद्यतः।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः।।
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह।
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप।।
भीष्म उवाच।
ततः स तं समुद्भूतं भूमिपालो महान्वसुः।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः।।
`हुतस्त्वया वदानीह पुरोडाशस्य यावती।
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः।।
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः।
न यजेयमहं चात्र परिभूतस्त्वया नृप।।
त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः।
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम्।।
वसुरुवाच।
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः।
अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम्।
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि।।
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः।
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन्।।
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः।'
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि।।
`शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम्।'
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः।।
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः।
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति।।
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्।।
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्।
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः।।
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः।
स देशो यत्र नस्तप्तं तपः परमदारुणम्।।
वरेण्यं वरदं तं वै देवदेवं सनातनम्।
कथं पश्येमहि वयं देवं नारायणं त्विति।।
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो।।
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना।
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम्।।
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः।
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः।।
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्।
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्।।
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः।
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः।
a गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः।।
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्।
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि।।
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः।
`सहसा हि गताः सर्वे तेजसा तस्य मोहिताः।।'
ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत्।
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः।।
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्।
न किलातप्ततपसा शक्यते द्रष्टमञ्जसा।।
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्।
व्रतावसाने च शुभान्नरान्ददृशिमो वमय्।।
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान्।
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्भुखान्।।
मानसो नाम स जपो जप्यते तैर्महात्मभिः।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः।।
याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये।
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह।।
तेजोनिवासः स द्वीप इति वै मेनिरे वयम्।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः।।
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते।।
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्।
कृताञ्जलिपुष्टा हृष्टा नम इत्येव वादिनः।।
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम्।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः।।
वयं तु तेजसा तस्य सहसा हृतचेतसः।
न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः।।
एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः।
`आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः।।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः।।
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा।।
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः।
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा।।
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया।।
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते।
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर।।
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु।
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत्।।
तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः।।
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान्।
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम्।।
देव उवाच।
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः।।
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन।।
कामं कालेन महता एकान्तित्वमुपागतैः।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः।।
महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च।।
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ।।
ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम्।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सिंतमञ्जसा।।
एवं सुतपसा चैव हव्यकव्यस्तैथैव च।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि।।
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्।
अनादिनिधनोऽव्यक्तो देवदानवपूजितः।।
एवमेकतवाक्येन द्वितत्रितमतेन च।
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः।
समापयत्ततो यज्ञं दैवतं समपूजयत्।।
समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः।।
स राजा राजशार्दूल सत्यधर्मपरायणः।
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः।।
नारायणपरो भूत्वा नारायणजपं जपन्।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः।।
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम्।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये
चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः।। 344।।