शांतिपर्व

अध्यायः ३४३

Santi Parva (Sanskrit) · Adhyaya 343
अक्षर का आकार

भीष्म उवाच।

स एवमुक्तो द्विपदां वरिष्ठो
नारायणेनोत्तमपूरुषेण।
जगाद वाक्यं द्विपदां वरिष्ठं
नारायणं लोकहिताधिवासम्॥ 12-343-1a

नारद उवाच।

यदर्थमात्मप्रभवेह जन्म
त्वयोत्तमं धर्मगृहे चतुर्धा।
तत्साध्यतां लोकहितार्थमद्य
गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्॥ 12-343-2a
वेदाः स्वधीता मम लोकनाथ
तप्तं तपो नानृतमुक्तपूर्वम्।
पूजां गुरूणां सततं करोमि
परस्य गुह्यं न तु भिन्नपूर्वम्॥ 12-343-3a
गुप्तानि चत्वारि यथागमं मे
शत्रौ च मित्रे च समोस्मि नित्यम्।
तं चादिदेवं सततं प्रपन्न
एकान्तभावेन वृणोभ्यजस्रम्॥ 12-343-4a
एभिर्विशेषैः परिशृद्धसत्वः
कस्मान्न पश्येयमनन्तमीशम्।
तत्पारमेष्ठ्यस्य वचो निशम्य
नारायणः शाश्वतधर्मगोप्ता॥ 12-343-5a
गच्छेति तं नारदमुक्तबान्स
संपूजयित्वा विधिवत्क्रियाभिः।
ततो विसृष्टः परमेष्ठिपुत्रः
सोऽभ्यर्चयित्वा तमृषिं पुराणम्॥ 12-343-6a
खमुत्पपातोत्तमयोगयुक्त
स्ततोऽधिमेरौ सहसा निलिल्ये।
तत्रावतस्थे च मुनिर्मुर्हुत
मेकान्तमासाद्य गिरेः स शृङ्क्ते॥ 12-343-7a
आलोकयन्नुत्तरपश्चिमेन
ददर्श चाप्यद्भुतमुक्तरूपम्।
क्षीरोदधेर्योत्तरतो हि द्वीपः
श्वेतः स नाम्ना प्रथितो विशालः॥ 12-343-8a
मेरोः सहस्रैः स हि योजनानां
द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः।
अनिन्द्रियाश्चानशनाश्च तत्र
निष्पन्दहीनाः सुसुगन्धिनस्ते॥ 12-343-9a
श्वेताः पुमांसो गतसर्वपापा
श्चक्षुर्मुषः पापकृतां नराणाम्।
वज्रास्थिकायाः सममानोन्माना
दिव्यावयवरूपाः शुभसारोपेताः॥ 12-343-10a
छत्राकृतिशीर्षा मेघौघनिनादाः
सममुष्कचतुष्का राजीवच्छदपादाः।
षष्ठ्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये
जिह्वाभिर्ये विश्ववक्रंलेलिह्यन्ते सूर्यप्रख्यम्॥ 12-343-11a
सर्वे तस्य निसर्ग इति॥

युधिष्ठिर उवाच।

अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः।
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा॥ 12-343-13a
ये च मुक्ता भवन्तीह नरा भरतसत्तम।
तेषां लक्षणमेतद्धि तच्छ्वेतद्द्वीपवासिनाम्॥ 12-343-14a
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे।
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्॥ 12-343-15a

भीष्म उवाच।

विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसन्निधौ।
यैषा तव हि वक्तव्या कथासारो हि सा मता॥ 12-343-16a
शन्तनोः कथयामास नारदो मुनिसत्तमः।
राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान्पुरा॥' 12-343-17a
राजोपरिचरो नाम बभूवाधिपतिर्भुवः।
आखण्‍डलसखः ख्यातो भक्तो नारायणं हरिं॥ 12-343-18a
धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्द्रितः।
साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा॥ 12-343-19a
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम्।
पूजयामास देवेशं तच्छेषेण पितामहान्॥ 12-343-20a
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः।
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः॥ 12-343-21a
सर्वभावेन भक्तः स देवदेवं जनार्दनम्।
अनादिमध्यनिधनं लोककर्तारमव्ययम्॥ 12-343-22a
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शिनः।
एकशय्यासनं देवो दत्तवान्देवराट् स्वयम्॥ 12-343-23a
आत्मराज्यं धनं चैव कलत्रं वाहनं तथा।
यत्तद्भागवतं सर्वमिति तत्प्रेषितं सदा॥ 12-343-24a
काम्यनैमित्तिका राजन्यज्ञियाः परमक्रियाः।
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः॥ 12-343-25a
पाञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः।
वरान्नं भगवत्प्रोक्तं भुञ्जते वाऽग्रभोजनम्॥ 12-343-26a
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः।
नानृता वाक्समभवन्मनो दुष्टं न चाभवत्।
न च कायेन कृतवान्स पापं परमण्वपि॥ 12-343-27a
ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः।
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्॥ 12-343-28a
वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ।
आस्यैः सप्तभिरुद्गीर्णं लोकधर्ममनुत्तमम्॥ 12-343-29a
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः॥ 12-343-30a
सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः।
एताभिर्धार्यते लोकस्ताभ्याः शास्त्रं विनिःसृतं॥ 12-343-31a
एकाग्रमनसो दान्ता मुनयः संयमे रताः।
भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः॥ 12-343-32a
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्।
लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे॥ 12-343-33a
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः।
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः॥ 12-343-34a
आराध्य तपसा देवं हरिं नारायणं प्रभुम्।
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह॥ 12-343-35a
नारायणानुशिष्टा हि तदा देवी सरस्वती।
विवेश तानृषीन्सर्वाल्लोँकानां हितकाम्यया॥ 12-343-36a
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः।
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा॥ 12-343-37a
आदावेव हि तच्छास्त्रमोंकारस्वरपूजितम्।
ऋषिभिः श्रावितं तत्र यत्र कारुणिकोह्यसौ॥ 12-343-38a
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः।
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः॥ 12-343-39a
कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम्।
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते॥ 12-343-40a
प्रवृत्तौ च निवृत्तौ च यस्मादेतद्भविष्यति।
यजुर्ऋक्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा॥ 12-343-41a
यथाप्रमाणं हिं मया कृतो ब्रह्म प्रसादतः।
रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा। 12-343-42a
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च।
सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम्॥ 12-343-43a
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः।
सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम्॥ 12-343-44a
भविष्यति प्रमाणं वै एतन्मदनुशासनम्।
तस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम्॥ 12-343-45a
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः।
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम्॥ 12-343-46a
स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते।
बृहस्पतिमते चैव लोकेषु प्रतिचारिते॥ 12-343-47a
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः।
बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः॥ 12-343-48a
स हि मद्भावनिरतो मद्भक्तश्च भविष्यति।
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति॥ 12-343-49a
एतद्धि युष्मच्छास्त्राणां शास्त्रमुत्तमसंज्ञितम्।
एतदर्थ्यं च धर्म्यं च रहस्यं चैतदुत्तमम्॥ 12-343-50a
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ।
स च राजश्रिया युक्तो भविष्यति महान्वसुः॥ 12-343-51a
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम्।
अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया॥ 12-343-52a
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः।
विसृज्य तानृषीन्सर्वान्कामपि प्रसृतो दिशम्॥ 12-343-53a
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः।
प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम्॥ 12-343-54a
उत्पन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते।
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ॥ 12-343-55a
जग्मुर्यथेप्सितं सर्वलोकानां सर्वधर्मप्रवर्तकाः॥ 12-343-56a
॥ इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 343॥