शांतिपर्व
अध्यायः ३४५
युधिष्ठिर उवाच।
यदा भक्तो भगवति आसीद्राजा महान्वसुः।
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ऋषीणां चैव संवादं त्रिदशानां च भारत।।
`इयं वै कर्मभूमिः स्यात्स्वर्गो भोगाय कल्पितः।
तस्मादिन्द्रो महीं प्राप्य यजनाप तु दीक्षितः।।
सवनीयपशोः काल आगते तु बृहस्पतिः।
पिष्टमानीयतामत्र पश्वर्थमिति भाषत।।
तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम्।
बृहस्पतिं मांसगृद्धाः पृथक्पृथगिदं पुनः।।'
अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान्।
स च छागोप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः।।
ऋषय ऊचुः।
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ।।
नैष धर्मः सतां देवा यत्र बध्येत वै पशुः।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः।।
भीष्म उवाच।
तेषां संवदतामेवमृषीणां विबुधैः सह।
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः।।
अन्तरिक्षचरः श्रीमान्सहस्रबलवाहनः।
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम्।।
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम्।
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः।
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान्वसुः।।
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा।
अपृच्छन्सहिताऽभ्येत्य वसुं राजानमन्तिकात्।।
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः।
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः।।
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः।
कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः।।
ऋषय ऊचुः।
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप।
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः।।
भीष्म उवाच।
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्।
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा।।
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः।
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्।।
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत।
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः।।
अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि।
` विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप।
वयं विरुद्धवचना यदि तत्र पतामहे।।'
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा।
अधो वै संबभूवाशु भूमेर्विवरगो नृप।।
स्मृतिस्त्वेवं न विजहौ तदा नारायणाज्ञया।।
देवास्तु सहिताः सर्वे वमोः शापविमोक्षणम्।
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्।।
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना।
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः।।
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः।
ऊचुः संहृष्टमनसो राजोपरिचरं तदा।।
ब्रह्मण्य देवभक्तस्त्वं सुरासुरगुरुर्हरिः।
कामं स तव तुष्टात्मा कुर्याच्छापविभोक्षणम्।।
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्।
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम।।
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्।
`विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना।।
अस्मत्पक्षनिमित्तेन व्यसनं प्राप्तमीदृशम्।'
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृप्रसत्तम।
यावत्त्वं शापदोषेण कालमासिप्यसेऽनघ।।
भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि।
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः।।
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत्।
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः।।
वसोर्धारामिपीतत्वात्तेजसाऽऽप्यायितेन च।
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति।।
एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः।
ऋतुं समाप्य पिष्टेन मुनीनां वचनात्तदा।।'
गताः धमवनं देवा ऋषगश्च तपोधनाः।
`गृहीत्वा दक्षिणां सर्वे गतः स्वानाश्रमान्पुनः।।
वसुं विचिन्त्य शक्रश्च प्रविनेशामरावतीम्।
वसुर्विवरगस्तत्र व्यलीकस्य फलं गुरोः।।'
चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत।
जप्यं जगौ च सततं नारायणमुखोद्गवम्।।
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम्।
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्।।
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः।
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः।।
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम्।
गरुत्मन्तं महावेगमावभाषेऽप्सितं तदा।।
द्विजोत्तम महाभाग पश्यतां वचनान्मम।
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः।।
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्।
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम्।।
भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया।
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्।।
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्।
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः।।
तत एनं समुत्क्षिप्य सहसा विनतासुतः।
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत।।
अस्मिन्मुहुर्ते संजज्ञे राजोपरिचरः पुनः।
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः।।
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया।
प्राप्ता गतिरधस्तात्तु द्विजशापान्महात्मना।।
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः।
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च।।
भीष्म उवाच।
एतत्ते सर्वमाख्यातं संभूता मानवा यथा।
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः।। 345।।