शांतिपर्व

अध्यायः ३३६

Santi Parva (Sanskrit) · Adhyaya 336
अक्षर का आकार

भीष्म उवाच।

एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः।
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा।।

उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्।
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्।।

अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः।
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः।।

शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने।
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो।।

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्।।

क्षितिं वा देवलोकं वा गम्यतां यदि रोचते।
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्।।

तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना।
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च।।

अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्।
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा।।

पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः।
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः।।

अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्।
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्।।

`एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा।
हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम्।।'

तं ददर्शाश्रमपदे नारदः सुमहातपाः।
अथैनमब्रवीत्काले मधुराक्षरया गिरा।।

भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते।
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव।।

ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते।
रजसा तमसा चैव सोमः सोपप्लवो यथा।।

न भ्राजते यथापूर्वं निषादानामिवालयः।
देवर्षिगणजुष्टोऽपि वेदध्वनिविनाकृतः।।

ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः।
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा।।

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्।
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण।।

एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम्।
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली।।

त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्।
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते।।

यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर।
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः।।

नारद उवाच।

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्।
मलं पृथिव्या बाह्वीकाः स्त्रीणां कौतूहलं मलम्।।

अधीयतां भवान्वेदान्सार्घं पुत्रेण धीमता।
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः।।

भीष्म उवाच।

नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्।
तथेत्युक्त्वाऽथ संहृष्टो वेदाभ्यासे दृढव्रतः।।

`* उवाच च महाप्राज्ञं नारदं पुनरेव हि।।

मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया।
कीदृशाश्चैव वाह्लीका ब्रूहि मे वदतां वर।।

नारद उवाच।

अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः।
युगन्धरस्तु प्रथमस्तथा भूतिलकः स्मृतः।।

अच्युतच्छल इत्युक्तस्तृतीयः पारकृत्तमः।
चतुर्थस्तु महापापो बाह्लीक इति संज्ञितः।।

भृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगन्धरे।
एवकर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले।।

मेहन्ति च मलं पापा विसृजन्ति जलेषु वै।
नित्यं भूतिलकेत्यन्नं तज्जलं च पिबन्ति च।।

हरिबाह्यास्तु बाहीका न स्मरन्ति हरिं क्वचित्।
ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः।
वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः।।

पुष्कराहारनिरताः पिशाचा यदभाषते।
मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने।।

ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम्।
युगन्धरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले।।

तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै।
आगताऽसि तथा स्नातुं कथं स्वर्गं न गच्छसि।।

इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना।
उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका।।

एतत्तु ते दिवावृत्तं रात्रौ वृत्तमथान्यथा।
गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः।।

यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम्।
न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि।।

उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह।
स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा।।

अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम्।
वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता।।

सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम्।
नमस्ते ब्राह्मणि शुभे पूताऽहं तव दर्शनात्।।

कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता।
हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि।।

इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता।
जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम्।।

तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी।
अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तभम्।।

ब्राह्मणी चैव कालेन वासुदेवपरायणा।
सपुत्रा चागता स्थानमच्युतस्य शुभं परम्।।

एतत्ते कथितं विद्वन्मुने कालोऽयमागतः।।

गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः।
इत्युक्त्वा स जगामाथ नारदो वदतांवरः।।

द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात्।'
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्।
स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव।।

तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः।
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः।।

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्।
शुको वारितमात्रस्तु कौतूहलसमन्वितः।।

अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्।
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्।।

शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित्।
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्।।

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः।
तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः।।

आदर्शे रस्वामिव च्छायां पश्यस्यात्मानमात्मना।
न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय।।

देवयानपथो विष्णुः पितृयानपथो रविः।
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः।।

पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः।
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः।।

तत्र देवगणाः साध्याः संबभूवुर्महाबलाः।
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः।।

उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः।
अपानश्च ततो ज्ञेयः प्राणश्चापि तताऽपरः।।

अनपत्योऽभवत्प्राणो दुर्घर्षः शत्रुतापनः।
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्।।

प्राणिनां सर्वतो वायुश्रेष्टां वर्तयते पृथक्।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते।।

प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः।
प्रथमः प्रथमे मार्गे आवहो नाम योऽनिलः।।

अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्च महाद्युतिः।
प्रवहो नाम संवाति द्वितीयश्च सतोयदः।।

उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः।।

यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः।।

योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति।
उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः।।

समुह्यमाना बहुधा येन नीताः पृथग्घनाः।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः।।

संहता येन चाविद्धा भवन्ति नदनान्तराः।
रक्षणार्थाय संभूता मेघत्वमुपश्यान्ति च।।

योऽसौ वहति देवानां विमानानि विहायसा।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः।।

येन वेगवता तूर्णं रूक्षेणारुजता रसान्।
वायुना विहता मेघा न भवन्ति बलाहकाः।।

दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्।
पञ्चमः स महावेगो विवहो नाम मारुतः।।

यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति।।

दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः।
यो निरंशुः सहस्रस्य येन भाति वसुंधरा।।

यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः।
षष्ठः पिरवहो नाम स वायुर्जयतांवरः।।

सर्वप्राणभृतां प्राणान्योऽनुकाले निरस्यति।
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ।।

सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मचिन्तकाः।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते।।

यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः।।

येन सृष्टः पराभूतो यात्येव न निवर्तते।
परावहो नाम परो वायुः स दुरतिक्रमः।।

एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः।
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः।।

एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः।
कम्पितः सहसा तेन वायुनाऽतिप्रवायता।।

विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः।
सहसोदीर्यते तात जगत्प्रव्यथते तदा।।

तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति।
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्।।

एतावदुक्त्वा वचनं पराशरसुतः प्रभुः।
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
षट्‌त्रिंशदधिकत्रिशततमोऽध्यायः।। 336।।