शांतिपर्व

अध्यायः ३३७

Santi Parva (Sanskrit) · Adhyaya 337
अक्षर का आकार

भीष्म उवाच।

एतस्मिन्नन्तरे भूते नारदः पुनरागमत्।
शुकं स्वाध्यायनिरतं वेदार्थान्प्रष्टुमीप्सवा।।

देवर्षि तु शुको दृष्ट्वा नारदं समुपस्यितम्।
अर्ध्यपूर्वेण विधिवा वेदोक्तेनाभ्यपूजयत्।।

नारदोऽयाजवीत्प्रीतो ब्रूहि ब्रह्मविदां वर।
केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत्।।

नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत।
अस्मिँल्लोके हितं यत्स्वात्तेन मां योक्तुमर्हसि।।

नारद उवाच।

तत्त्वं जिज्ञासतां पूर्वनृषीणां भावितात्मनाम्।
सनत्कुमारो भगवानिदं वतनमब्रवीत्।।

नास्ति विद्यासगं चक्षुर्नास्ति सत्यसमं तपः।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्।।

निवृत्तिः कर्मणा पापात्सततं पुण्यशीलता।
सद्वृत्तिः सद्वदाचारः श्रेय एवदनुत्तमम्।।

नानुवयसुखं प्राप्य यः सज्जति न मुच्यते।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम्।।

सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी।
मोहवालावृतो दुःखमिह चामुत्र सोऽश्नुते।।

सर्वोपागात्तु कामस्व क्रोधस्य च विनिग्रहः।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ।।

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात्।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः।।

आनृशंस्यं परो धर्मः क्षमा च परमं बलम्।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम्।।

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम।।

सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः।
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः।।

इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह।
आसज्जमानः शान्तात्मा निर्विकारः समाहितः।।

अत्मभूतैरतद्भूतः सह चैव विनैव च।
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति।।

अदर्शनमसंस्पर्शस्तथाऽसंभाषणं तदा।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम्।।

न हिंस्यात्सर्वभूतानि मैत्रायगणतश्चरेत्।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित्।।

आकिञ्चन्यं सुसंतोषो निराशीस्त्वमचापलम्।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः।।

परिग्रहं परित्यज्य भव तात जितेन्द्रियः।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्।।

निरामिषा न शोचन्ति त्यजेदामिषमात्मनः।
परित्यज्यामिषं सौभ्य दुःखतापाद्विमोक्ष्यसे।।

तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना।।

गुणसङ्गेष्वनासक्त एकचर्यारतः सदा।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्।।

द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति।।

शुभैर्लभति देवत्वं व्यामिश्रेर्जन्म मानुषम्।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः।।

तत्र मृत्युवशो दुःखैः सततं समभिद्रुतः।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे।।

अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः।
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे।।

संवेष्ट्यमानं बहुभिर्मोहात्तन्तुभिरात्मजैः।
कोशकार इवात्मानं वेष्टयन्नावबुध्यसे।।

अलं परिग्रहेणेह दोषवान्हि परिग्रहः।
कृमिर्हि कोशकारस्तु बध्यते स परिग्रहात्।।

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव।।

महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान्।
मोहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान्।।

कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम्।।

यदा सर्वान्परित्यज्य गन्तव्यमवशेन ते।
अनर्थे किं प्रसक्तस्त्वं समर्थं नानुतिष्ठसि।।

अविश्रान्तमनालम्बमपाथेयमदैशिकम्।
तमः कान्तारमध्वानं कथमेको गमिष्यसि।।

न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यतः।।

विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम्।
अर्थार्थमनुसार्यन्ते सिद्धार्थस्य विमुच्यते।।

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः।।

रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम्।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम्।।

क्षमारित्रां सत्यमयीं धर्मस्थैर्यपदाङ्कुराम्।
त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदीं तरेत्।।

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज।।

त्यज धर्ममसंकल्पादधर्मं चाप्यलिप्सया।
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात्।।

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्।
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः।।

जराशोकसमाविष्टं रोगायतनमातुरम्।
रजस्वलमनित्यं च भूतावासमिमं त्यज।।

इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत्।
महाभूतात्मकं सर्वं महद्यत्परमाणु च।।

`महाभूतानि खं वायुरग्निरापस्तथा मही।
षष्ठं तु चेतना या तु आत्मा सप्तममुच्यते।'
अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता।।

इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः।।

सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः।
चतुर्विशक इत्येष व्यक्ताव्यक्तमयो गणः।।

एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते।
त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा।।

य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ।
पारम्पर्येह बोद्धव्यं ज्ञानानां यच्च किंचन।।

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्।।

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते।
लोके विततमात्मानं लोकांश्चात्मनि पश्यति।।

परावरदृशः शक्तिर्ज्ञानमूला न नश्यति।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा।।

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते।
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान्।।

लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते।
अनादिनिधनज्ञं तमात्मनि स्थितमव्ययम्।।

अकर्तारममूर्तं च भगवानाह तीर्थवित्।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः।।

स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु।।

तप्यतेऽथ पुनस्तेन भुक्त्वा पथ्यमिवातुरः।
अजस्रमेव मोहान्धो दुःखेषु सुखसंज्ञितः।।

बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा।
ततो निबद्धः स्वां योनिं कर्मणामुदयादिह।।

परिभ्रमति संसारं चक्रवद्बहुवेदनः।
सत्वं निर्वृत्तबन्धस्तु निवृत्तश्चापि कर्मतः।।

सर्ववित्सर्वजित्सिद्धौ भव भावविवर्जितः।
संयमेन नवं बन्धं निवर्त्य तपसो बलात्।
संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम्।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तत्रिंशदधिकत्रिशततमोऽध्यायः।। 337।।