शांतिपर्व

अध्यायः ३३५

Santi Parva (Sanskrit) · Adhyaya 335
अक्षर का आकार

भीष्म उवाच।

एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः।
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना।।

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्भुखः।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः।।

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा।
हिमवन्तमियाद्दुष्टुं सिद्धचारणसेवितम्।।

तमप्सरोगाकीर्णं गीतस्वननिनादितम्।
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च।।

मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः।।

चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः।
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा।।

पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा।।

तत्र नित्यं समायान्ति लोकस्य हितकाम्यया।
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना।।

तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै।।

तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा।
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः।।

यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्।
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति।।

तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति।
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम्।।

अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम्।
किंन्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्।।

अनामृष्य ततः क्षेपमवैक्षत च पाविकम्।
संप्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा।।

कम्पयामास सव्येन पाणिना पुरुषोत्तमः।
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा।।

मेदिनी कम्पिता सर्वा सशैलवनकानना।
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा।।

रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना।
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत्।।

पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति।
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः।।

जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत्।
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्घनि।।

विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः।
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः।।

तपोऽतप्यत दुर्घर्षं तात नित्यं वृषध्वजः।
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम्।।

आदित्यपर्वतं नाम दुर्घर्षमकृतात्मभिः।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः।।

दशयोजनविस्तारमग्निज्वालसमावृतम्।
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान्।।

सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः।।

देवान्संतापयंस्तत्र महादेवो महाव्रतः।
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः।।

विविक्ते पर्वततटे पाराशर्यो महातपाः।
वेदानध्यापयामास व्यासः शिष्यान्महातपाः।।

सुमन्तुं च महाभागं वैशंपायनमेव च।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम्।।

एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः।
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम्।
आरणेयो विशुद्धात्मा नभसीव दिवाकरः।।

अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम्।
ददृशे सुतमायान्तं दिवाकरसमप्रभम्।।

असज्जमानं वृक्षेषु शैलेषु विषयेषु च।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्।।

सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः।।

ततो निवेदयामास पित्रे सर्वमशेषतः।
शुको जनकराजेन संवादं प्रीतमानसः।।

एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान्।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः।।

ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे।
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः।।

वेदेषु निष्ठां संप्राप्य साङ्गेष्वपि तपस्विनः।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्।।
शिष्या ऊचुः।

महता तेजसा युक्ता यशसा चापि वर्धिताः।
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम्।।

इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाद ह।
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया।।

एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्।।

ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम।।

काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा।
पष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः।।

चत्वारस्ते वयं शिष्या गुरुपूत्रश्च पञ्चमः।
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः।।

शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्।
पराशरात्मजो धीमान्परलोकार्थचिन्तकः।।

उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा।।

ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते।
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम्।।

नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि।
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः।
नापरीक्षितचारित्रे विद्या देया कथंचन।।

यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः।
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः।।

न नियोज्याश्च वः शिष्या अनियोगे महाभये।
यथामति यथापाठं तथा विद्या फलिष्यति।।

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः।।

वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम्।
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा।।

यो निर्वदेत संमोहाद्ब्राह्मणां वेदपारगम्।
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम्।।

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति।।

एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति।
उपकुर्याच्च शिष्याणामेतच्च हृद्वि वो भवेत्।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः।। 335।।