शांतिपर्व
अध्यायः ३३४
भीष्म उवाच।
ततः स राजा जनको मन्त्रिभिः सह भारत।
पुरोहितं पुरस्कृत्य सर्वाण्यन्तः पुराणि च।।
आसनं च पुरस्कृत्य रत्नानि विविधानि च।
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात्।।
स तदासनमादाय बहुरत्नविभूषितम्।
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्।।
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः।
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्।।
तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रतिपूज्य च।
पाद्यं निवेद्य प्रथममर्ध्यं गां च न्यवेदयत्।।
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि।
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः।।
गां चैव समनुज्ञाय राजानमनुमान्य च।
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्।।
अनामयं च राजेन्द्र शुकः सानुचरस्य ह।
अनुज्ञातः स तेनाथ निषसाद सहानुगः।।
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः।
किमागमनमित्येवं पर्यपृच्छत पार्थिवः।।
शुक उवाच।
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः।
विदेहराजो याज्यो मे जनको नाम विश्रुतः।।
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः।
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयं।।
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः।
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि।।
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः।
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा।।
जनक उवाच।
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु।
कृतोपनयनस्तात भवेद्वेदपरायणः।।
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो।
देवतानामृषीणां चाप्यनृणो ह्यनसूयकः।।
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च।
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः।।
समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत्।
अनसूयुर्यथान्यायमाहिताग्निरनावृतः।।
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत्।
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः।।
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्।
निर्द्वन्द्वो बीतरागात्मा ब्रह्माश्रमपदे वसेत्।।
शुक उवाच।
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते।
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु वा।।
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति।
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप।।
जनक उवाच।
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्।
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः।।
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्।।
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्।
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः।।
अनेन क्रमयोगेन बहुजातिषु कर्मणाम्।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते।।
भावितैः करणैश्चायं बहुसंसारयोनिषु।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे।।
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः।।
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना।।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
संपश्यन्नोपलिप्येत जले वारिचरो यथा।।
पक्षिवत्प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते।
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः।।
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना।
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः।।
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम्।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा।।
न बिभेति परो यस्मान्न बिभेति पराच्च यः।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तु सः।।
यदा भावं न कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।।
संयोज्य मनसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम्।
त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वमश्नुते।।
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्।
समो भवति निर्द्वन्द्वो ब्रह्म संपद्यते तदा।।
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति।
काञ्चनं चायसं चैव सुखं दुःखं तथैव च।।
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा।।
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा।।
तमः परिगतं वेश्म यथा दीपेन दृश्यते।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्।।
एतत्सर्वं च पश्यामि त्वयि बुद्धिमतां वर।
यच्चान्यदपि नोक्तं मे तत्त्वतो वेद तद्भवान्।।
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः।
गुरोस्तव प्रसादेन तव चैवोपशिक्षया।।
तस्यैव च प्रसादेन प्रादुर्भूतं महात्मनः।
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम।।
अधिकं तव विज्ञानमधिका च गतिस्तव।
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे।।
बाल्याद्वा संशयाद्वापि भयाद्वाऽप्यविमोक्षणात्।
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिं।।
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः।
विमुच्य हृदयग्रन्थीनासादयति तां गतिम्।।
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः।
व्यवसायादृते ब्रह्मन्नासादयति तत्परम्।।
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपः।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते।।
न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम्।
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्।।
अहं त्वामनुपश्यामि ये चाप्यन्ते मनीषिणः।
आस्थितं परमं मार्गमक्षयं तमनामयम्।।
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः।
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः।। 334।।