शांतिपर्व
अध्यायः ३३३
भीष्म उवाच।
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्।
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः।।
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे।
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो।।
श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम्।
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि।।
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः।
योगशास्त्रं च निखिलं कापिलं चैव भारत।।
स तं ब्राह्नया श्रियः युक्तं ब्रह्मतुल्यपराक्रमम्।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम्।।
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्।
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः।।
पितुर्नियोगादगमन्मैथिलं जनकं नृपम्।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्।।
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै।।
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः।।
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे।
स्यातव्यं च वशे तस्य स ते छेत्स्यति संशयम्।।
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः।
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया।।
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः।
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम्।।
स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च।
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च।।
मेहोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः।
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत्।।
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्।
आर्यावर्तमिमं देशमाजगाम महामुनिः।।
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्।
अध्वानं सोऽतिचक्राम खचरः खे पतविव।।
पत्तनानि च रम्याणि स्फीतानि नगराणि च।
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति।।
उद्यावानि च रम्याणि तथैवायतनानि च।
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः।।
सोचिरेणैव कालेन विदेहानाससाद ह।
रक्षितान्धर्मराजेन जनकेन महात्मना।।
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्।
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान्।।
स्फीतांश्च शालियवसर्हंससारससेवितान्।
पद्मिनीभिश्च शतशः श्रीमतीभिरलकृतान्।।
स विदेहानतिक्रम्य समृद्धजनसेवितान्।
मिथिलोपवनं रम्यमाससाद समृद्धिमत्।।
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्।
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः।।
मनसा तं बहन्भारं तमेवार्थं विचिन्तयन्।
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह।।
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः।
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह।।
स राजमार्गमासाद्य समृद्धजनकसंकुलम्।
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह।।
तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन्।
तथैव च शुक्रस्तत्र निर्मन्युः समतिष्ठत।।
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः।
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात्।।
तेषां तु द्वारपालानामेकः शोकसमन्वितः।
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम्।।
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः।
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः।।
तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत्।
छायायामातपे चैव समदर्शी समद्युतिः।।
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः।
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः।।
तत्रान्तः पुरसंबद्धं महच्चैत्ररथोपमम्।
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्।।
तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम्।
अर्हमासनमादिश्य निश्चक्रामः ततः पुनः।।
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः।
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः।।
संलापालापकुशला नृत्तगीतविशारदाः।
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः।।
भावोपचारकुशला भावज्ञाः सत्वकोविदाः।
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन्।।
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन्।
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन्।।
तस्य भुक्तवतस्तात तदन्तः पुरकाननम्।
सुरम्यं दर्शयामासुरेकैकश्येन भारत।।
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम्।
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा।।
आरणेयस्तु शुद्धात्मा निःसंदेहस्त्रिकर्मकृत्।
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति।।
तस्मै शय्यासनं दिव्यं वरार्हः रत्नभूषितम्।
स्पर्ध्यास्तरणसंकीर्णं ददुस्ताः परमस्त्रियः।।
पादशौचं तु कृत्वैव शुक्रः संध्यामुपास्य च।
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्।।
पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः।
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः।
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्।
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत।।
अनेन विधिना कर्ष्णिस्तदहः शेषमच्युतः।
तां च रात्रिं नृपकुले वर्तयामास भारत।।
।। इति श्रीमन्महाभारते
शान्तिप्रवणि मोक्षधर्मपर्वणि
त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः।। 333।।