शांतिपर्व
अध्यायः ३२७
`कपिल उवाच।
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः।।
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तगुणैरुपलक्ष्यते।।
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च शतश्चानुग्राह्यत्वात्साऽकृतिः।।
व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि भवन्ति।
एवमाह।।
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम्।
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः।।
तदेतदव्यक्तम्। प्रस्नवा घारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे।।
यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः। व्यक्तं नामाऽऽसुरे यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्यगेतत्पुरुषसंज्ञिकं महदित्युक्तं बुद्धिरिति च। सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह।।
मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः।
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा।।
यदेषोर्ध्यस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः यकरोत्यहंकारमव्यक्ताव्यक्ततरम्।।
यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः।।
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसंज्ञकम्।
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः।।
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो ममकारश्चैतान्यहंकारपर्यायनामानि भवन्त्येवमाह।।
अहं कर्तेत्यहंकर्ता ससृजे विश्वमीश्वरः।
तृतीयमेनं पुरुषमभिमानगुणं विदुः।।
अहंकाराद्युगपदुन्मादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि। तान्येव बुद्ध्यन्त इत्येवमाह।।
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे।
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते।।
भूतेषु चाप्यहंकारमश्वरूपस्तथोच्यते।
पुनर्विषयहेत्वर्थे स मनस्संज्ञकः स्मृतः।।
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति। श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः।।
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्त्येवमाह।।
अहंकारात्तथा भूतान्युत्पाद्य महदात्मनोः।
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः।।
विकारस्थमहंकारमवबुध्याथ मानवः।
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम्।।'
।। इति श्रीमन्महाभारते
शान्तिपरर्वणि मोक्षधर्मपर्वणि
सप्तविंशत्यधिकत्रिशततमोऽध्यायः।। 327।।