शांतिपर्व
अध्यायः ३२८
कपिल उवाच।
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि।
यमानुपूर्व्यशः प्रोक्तान्येवमाह।।
तत्वान्यथोक्तानि। तथाविद्यो निबुद्ध्यते।
न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात्।।
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः।।
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते।।
तदेव तद्यदा दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि एतदाद्यं मध्यमं च। एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते। केचिदाहुराचार्याः।।
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम्।।
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः। एवमाह।।
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति।
पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति।।'
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टाविंशत्यधिकत्रिशततमोऽध्यायः।। 328।।