शांतिपर्व

अध्यायः ३२६

Santi Parva (Sanskrit) · Adhyaya 326
अक्षर का आकार

* युधिष्ठिर उवाच।

अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ।
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः।।

भीष्म उवाच।

अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः।
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम्।।

असुरिरुवाच।

अव्यक्तव्यक्ततत्वानां निश्चयं बुद्धिनिश्चयम्।
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थितः।।

किं व्यक्तं किमव्यक्तं किं व्यक्ता
व्यक्तं किमिति तत्वानि।
किमाद्यं मध्यमं च तत्वानां
किमध्यात्माधिभूतदैवतं च।।

किंनु सर्गाप्ययं कति सर्गाः किं भूतं
किं भविष्यं किं भव्यं च किं ज्ञानम्।
को ज्ञाता किं बुद्धं किमप्रबुद्धं
किं बुध्यमानं कति पर्वाणि।।

कति स्रोतांसि कति कर्मयोनयः
किमेकत्वं नानात्वम्।
किं सहवासं निवासं
किं विद्याविद्यमिति।।'

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
षङ्विंशत्यधिकत्रिशततमोऽध्यायः।। 326।।