शांतिपर्व

अध्यायः ३१३

Santi Parva (Sanskrit) · Adhyaya 313
अक्षर का आकार

वसिष्ठ उवाच।

अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु।
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा।।

अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप।
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते।।

एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते।
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि।।

न त्वेव बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम्।
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम्।।

बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम्।
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः।
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्।।

अव्यक्तोबोधनाच्चापि बुध्यमानं वदन्त्युत।
पञ्चविंशं महात्मानं न चासावपि बुध्यते।।

षङ्विशं विमलं बुद्धमप्रमेयं सनातनम्।
स तु तं पञ्चविंशं च चतुर्विशं च बुध्यते।।

दृश्यादृश्यौ ह्यनुगतावुभावेव महाद्युती।
अव्यक्तं तत्तु तद्ब्रह्म बुध्यते तात केवलम्।।

केवलं पञ्चविंशं च चतुर्विशं च पश्यति।
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते।।

तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः।
बुध्यते च परां बुद्धिं विमलाममलां यदा।।

षङ्विंशं राजशार्दूल तथा बुद्धत्वमाव्रजेत्।
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै।।

निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम्।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात्।।

केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्।
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्।।

तत्त्वसंश्रयणादेष तत्त्ववान्न च मानद।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः।।

न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्।
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम्।।

षाङ्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः।
केवलेन बलेनैव समतां यात्यसंशयम्।।

षङ्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान्।
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात्।।

चेतनेन समेतस्य पञ्चविंशतिकस्य च।
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते।।

बुध्यमानोप्रबुद्धेन समतां याति मैथिल।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप।।

निःसङ्गात्मानमासाद्य षङ्विंशकमजं विभुम्।
विभुस्त्यजति चाव्यक्तं यदा त्वेताद्विबुध्यते।।

चतुर्विशं महाभाग षङ्विंशस्य प्रबोधनात्।
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ।।

प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात्।
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः।।

मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः।
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते।।

एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः।
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसंज्ञितम्।।

पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते।
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात्।।

सोयमेवं विमुच्येत नान्यथेति विनिश्चयः।
परेण परधर्मा च भवत्येष समेत्य वै।।

विशुद्धर्मा शुद्धेन बुद्धेन च स बुद्धिमान्।
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ।।

वियोगधर्मिणा चैव वियोगात्मा भवत्यथ।
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत्।।

शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान्।
विमलात्मा च भवति समेत्य विमलात्मना।।

केवलात्मा तथा चैव केवलेन समेत्य वै।
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते।।

एतावदेतत्कथितं मया ते
तथ्यं महाराज यथार्थतत्त्वम्।
अमत्सरत्वं प्रतिगृह्य चार्थं
सनातनं ब्रह्म विशुद्धमाद्यम्।।

नावेदनिष्ठस्य जनस्य राज
न्प्रदेयमेतत्परमं त्वया भवेत्।
विवित्समानाय विबोधकारणं
प्रबोधहेतोः प्रणतस्य शासनम्।।

न देयमेतच्च तथाऽनृतात्मने
शठाय क्लीबाय न जिह्नबुद्धये।
न पण्डितज्ञानपरोपतापिने
देयं त्वयेदं विनिबोध यादृशे।।

श्रद्धान्वितायाथ गुणान्विताय
परापवादाद्विरताय नित्यम्।
विशुद्धयोगाय बुधाय चैव
क्रियावते च क्षमिणे हिताय।।

विविक्तशीलाय विधिप्रियाय
विवादहीनाय बहुश्रुताम्।
विजानते चैव दमक्षमावते
शक्ताय चैकात्मशमाय देहिनाम्।।

एतैर्गुणैर्हीनतमे न देय
मेतत्परं ब्रह्म विशुद्धमाहुः।
न श्रेयसा योक्ष्यति तादृशे कृतं
धर्मप्रवक्तारमपात्रदानात्।।

पृथ्वीमिमां यद्यपि रत्नपूर्णां
दद्यान्न देयं त्विदमव्रताय।
जितेन्द्रियायैतदसंशयं ते
भवेत्प्रदेयं परमं नरेन्द्र।।

कराल मा ते भयमस्तु किंचि
देतच्छ्रुतं ब्रह्म परं त्वयाऽद्य।
यथावदुक्तं परमं पवित्रं
विशोकमत्यन्तमनादिमध्यम्।।

अगाधजन्मामरणं च राज
न्निरामयं वीतभयं शिवं च।
समीक्ष्य मोहं त्यज बाऽद्य सर्व
ज्ञानस्य तत्त्वार्थमिदं विदित्वा।।

अवाप्तमेतद्धि मया सनातना
द्धिरण्यगर्भाद्यजतो नराधिप।
प्रसाद्य यत्नेन तमुग्रतेजसं
सनातनं ब्रह्म यथाऽद्य वै त्वया।।

पृष्टस्त्वया चास्मि यथा नरेन्द्र
तथा मयेदं त्वयि चोक्तमद्य।
तथाऽवाप्तं ब्रह्मणो मे नरेन्द्र
महाज्ञानं मोक्षविदां परायणम्।।

भीष्म उवाच।

एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः।
पञ्चविंशो महाराज परमर्षिनिदर्शनात्।।

पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च।
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम्।।

एतन्निः श्रेयसकरं ज्ञानं ते परमं मया।
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप।।

हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना।
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम्।।

नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम्।
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम्।।

येन क्षराक्षरे वित्ते भयं तस्य न विद्यते।
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव।।

अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत्।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते।।

देवलोकं तथा तिर्यङ्भनुष्यमपि चाश्नुते।
यदि शुध्यति कालेन तस्मादज्ञानसागरात्।।

`उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम्।'
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते।
अहन्यहनि मज्जन्ति यत्र भूतानि भारत।।

यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्।
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रयोदशाधिकत्रिशततमोऽध्यायः।। 313।।