शांतिपर्व
अध्यायः ३१२
वसिष्ठ उवाच।
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम्।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः।।
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम्।
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः।।
`एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित्।'
परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः।
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम्।।
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्।।
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते।।
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः।
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर।।
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः।।
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव।।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशक।।
विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे।।
उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ।
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः।।
अनादिनिधनावेतावुभावेवेश्वरौ मतौ।
तत्त्वसंज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः।।
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम्।
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः।।
गुणानां महदादीनामुत्पद्यन्ते परम्पराः।
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्।।
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते।।
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते।।
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात्।।
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात्।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम।।
क्षरो भवत्येष यदा तदा गुणवती मिथः।
प्रकृतिं त्विभजानाति निर्गुणत्वं तथाऽऽत्मनः।।
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्।।
तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत्।
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते।।
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते।
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत्।।
किमहं कृतवानेवं योहं कालमिमं जनम्।
`यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा।'
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह।।
अहमेव हि संमोहादन्यमन्यं जनाज्जनम्।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम्।।
मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते।
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेदयहम्।।
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्।।
अयमत्र भेवद्बन्धुरनेन सह मे क्षमम्।
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम्।।
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै।
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा।।
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान्।
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम्।।
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान्।
उच्चमध्यमनीचानां तामहं कथमावसे।।
समानया न याचेह सहवासमहं कथम्।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे।।
सहवासं न यास्यामि कालमेतद्धि वञ्चनात्।
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया।।
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम।
योऽहमत्राभवं सक्तः पराङ्भुखमुपस्थितः।।
ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः।।
प्रकृतेरनयत्वेन तासु तास्विह योनिषु।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च।।
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा।
न ममात्रानया कार्यमहंकारकृतात्मना।।
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्।
इदानीमेष बुद्धोस्मि निर्ममो निरहंकृतः।।
ममत्वमनया नित्यमहंकारकृतात्मकम्।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्।।
अनेन साम्यं यास्यामि नानयाऽहमचेतसा।
क्षणं मम सहानेन नैकत्वमनया सह।।
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान्।
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्।।
अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा।
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल।।
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम्।
मयेह ज्ञानसंपन्नं यथाश्रूतिनिदर्शनात्।।
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा।
प्रवक्ष्यामि तुते भूयस्तन्निबोध यथाश्रुतम्।।
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्।
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत्।।
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया।।
पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः।
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः।।
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप।
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम्।।
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
द्वादशाधिकत्रिशततमोऽध्यायः।। 312।।