शांतिपर्व
अध्यायः ३१४
भीष्म उवाच।
मृगयां विचरन्कश्चिद्विजने जनकात्मजः।
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः।।
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम्।
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्।।
भगवन्किमिदं श्रेयः प्रेत्य चापीह वा भवेत्।
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः।।
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः।
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः।।
ऋषिरुवाच।
मनसः प्रतिकूलानि प्रेत्य चेह नचेच्छसि।
भूतानां प्रतिकूलेभ्यो निवर्तस्य यतेन्द्रियः।।
धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम्।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः।।
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि।
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि।।
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना।
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना।।
असता धर्मकामेन विशुद्धं कर्म दुष्करम्।
सता तु धर्मकामेन सुकरं कर्म दुष्करम्।।
वने ग्राम्यसुखाचारो यथाग्राम्यस्तथैव सः।
ग्रामे वनसुखाचारो यथा वनचरस्तथा।।
मनोवाक्कर्मगे धर्मे कुरु श्रद्धां समाहितः।
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान्।।
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता।
प्रार्थितं ब्राह्मणेभ्यश्च सत्कृतं देशकालयोः।।
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत्।
क्रोधमुत्सृज्य दत्त्वाऽथ नानुतप्येन्न कीर्तयेत्।।
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः।
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः।।
संस्कृता चैकपत्नी च जात्या योनिरिहेष्यते।
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते।।
स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत्।
पात्राकर्मविशेषेण देशकालाववेक्ष्य च।।
लीलयाऽल्पं यथा गात्रात्प्रमृज्यात्तु रजः पुमान्।
बहुयत्नेन च महत्पापनिर्हरणं तथा।।
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम्।
तथा निर्हृतदोषस्य प्रेत्य धर्मः सुखावहः।।
मानसं सर्वभूतेषु वर्तते वै शुभाशुभम्।
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावधारय।।
सर्वं सर्वेणा सर्वत्र क्रियमाणं च पूजय।
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्।।
अधृतात्मन्धृतौ तिष्ठ दुर्बद्धे बुद्धिमान्भव।
अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर।।
तेजसा शक्यते प्राप्तुमुपायः सहचारिणा।
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा।।
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः।
ययातिः क्षीणपुण्योपि धृत्या लोकानवाप्तवान्।।
तपस्विनां धर्मवतां विदुषां चोपसेवनात्।
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे।।
भीष्म उवाच।
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम्।
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुर्दशाधिकत्रिशततमोऽध्यायः।। 314।।