शांतिपर्व
अध्यायः ३११
जनक उवाच।
मानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम।
पश्यामि वाभिसंदिग्धमेतयोर्वै निदर्शनम्।।
तथाऽबुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः।।
अक्षरक्षरयोर्युक्तं त्वया यदपि कारणम्।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ।।
तदेत्तच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्।
प्रबुद्धमप्रबुद्धं च बुध्यमानं च तत्त्वतः।।
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च।
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह।।
वसिष्ठ उवाच।
हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि।
योगकृत्यं महाराज पृथगेव शृणुष्व मे।।
योगकृत्यं तु योगानां ध्यानमेव परं बलम्।
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः।।
एकाग्रता च मनसः प्राणायामस्तथैव च।
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा।।
मूत्रोत्सर्गपुरीषे च भोजने च नराधिप।
द्विकालं नाभियुज्जीत शेषं युञ्जीत तत्परः।।
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः।
दशद्वादशभिर्वापि चतुर्विशात्परं ततः।।
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ।
तिष्ठन्तमजरं यं तु यत्तदुक्तं मनीषिभिः।।
तैश्चात्मा सततं योज्य इत्येवमनुशुश्रुम्।
द्रुतं ह्यहीनमनसो नान्यथेति विनिश्चयः।।
विमुक्तः सर्वसङ्गेभ्यो लध्वाहारो जितेन्द्रियः।।
पूर्वरात्रेऽपररात्रे च धारयेत मनोऽऽत्मनि।।
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः।।
स्थाणुवच्चाप्यकम्पः स्याद्दारुवच्चापि निश्चलः।
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते।।
न शृणोति न चाघ्राति न रस्यति न पश्यति।
न च स्पर्शं विजानाति न संकल्पयते मनः।।
न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत्।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः।।
निर्वाते हि यथा दीप्यन्दीपस्तद्वत्प्रकाशते।
निर्लिङ्गो विचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात्।।
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः।।
विधूम इव सप्तार्चिरादित्य इव रश्मिमान्।
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि।।
संपश्यन्ति महात्मानो धृतिमन्तो मनीषिणः।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम्।।
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्।
तत्तत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते।।
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्।
महतस्तमसस्तात पारे तिष्ठन्न तामसः।।
स च मानस इत्युक्तस्तत्वज्ञैर्वेदपारगैः।
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञकः।।
योगमेतत्तु योगानां मन्ये योगस्य लक्षणम्।
एवं पश्यं प्रपश्यन्ति आत्मस्थमजरं परम्।।
योगदर्शनमेतावदुक्तं ते तत्वतो मया।
साङ्ख्याज्ञानं प्रवक्ष्यामि परिसंख्यानदर्शनम्।।
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः।
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम।।
अहंकारस्तु महतस्तृतीय इति नः श्रुतम्।
पञ्चभूतान्यहंकारादाहुः साङ्ख्यनिदर्शिनः।।
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश।
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च।।
एतावदेव तत्त्वानां साङ्ख्या आहुर्मनीषिणः।
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः।।
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते।
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना।।
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः।
गुणा गुणेषु सततं सागरस्योर्मयो यथा।।
सर्वप्रलय एतावान्प्रकृतेर्नृपसत्तम।
एकत्वं प्रलये चास्य बहुत्वं च यदाऽसृजत्।।
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः।
अधिष्ठाता य इत्युक्तस्तस्याप्येतन्निदर्शनम्।।
एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान्।
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्।।
बहुधाऽऽत्मानमकरोत्प्रकृतिः प्रसावत्मिका।
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति।।
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्।।
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते।
अव्यक्तके पुरे शेते पुरुषश्चेति कथ्यते।।
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते।
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः।।
अन्यदेव वचो ज्ञानं स्यादन्यज्ज्ञेयमुच्यते।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः।।
अव्यक्तं क्षेत्रमित्युक्तं यथासत्वं तथेश्वरम्।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम्।।
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम्।
साङ्ख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते।।
तत्त्वानि च चतुर्विशत्परिसंख्याय तत्त्वतः।
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः।।
पञ्चविंशो प्रबुद्धात्मा बुध्यमान इति स्मृतः।
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः।।
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः।
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत।।
सम्यङ्गिदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा।
गुणतत्त्वाद्यथैतानि निर्गुणोऽन्यस्तथा भवेत्।।
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः।
विद्यतेऽक्षरभावत्वे स परात्परमव्ययम्।।
पश्येरन्नेकमतयो न सम्यक् तेषु दर्शनम्।
ते व्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम्।।
सर्वमेतद्विजानन्तो नासर्वस्य प्रबोधनात्।
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः।।
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः।
य एनमभिजानन्ति न भयं तेषु विद्यते।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
एकादशाधिकत्रिशततमोऽध्यायः।। 311।।