शांतिपर्व
अध्यायः ३०८
युधिष्ठिर उवाच।
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः।
किंच तत्क्षरमित्युक्तं यस्मादावर्तते पुनः।।
अक्षरधरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन।
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन।।
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः।।
शेषमत्यं दिनानां ते दक्षिणायनभास्करे।
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम्।।
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्।
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे।।
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह।
न तृष्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम्।।
भीष्म उवाच।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
वसिष्ठस्य च संवादं करालजनकस्य च।।
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्।।
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः।।
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्वणम्।
पप्रच्छर्षिवरं राजा करालजनकः पुरा।।
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम्।
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः।।
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम्।।
वसिष्ठ उवाच।
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्।
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ।।
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम्।
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते।।
रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते।
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्।।
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवम्।
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्।।
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति।।
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः।
महानिति च योगेषु विरिञ्चिरिति चाप्यजः।।
साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः।
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः।।
वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना।
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः।।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना।
अहंकारं महातेजाः प्रजापतिरंकृतम्।।
अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम्।
महान्तं चाप्यहंकारमविद्यासर्गमेव च।।
अपरश्च परश्चैव समुत्पन्नौ तथैकतः।
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः।।
भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव।
अहंकारेषु सर्वेषु चतुर्थं विद्धि वैकृतम्।।
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च।।
एवं युगपदुत्पन्नं दशवर्गमसंशयम्।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत्।।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च।।
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च।
संभूतानीह युगपन्मनसा सह पार्थिव।।
एषा तत्त्वचतुर्विशत्सर्वाकृतिषु वर्तते।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः।।
एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु।
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे।।
सयक्षभूतगन्धर्वे सकिन्नरमहोरगे।
सचारणपिशाचे वै सदेवर्षिनिशाचरे।।
सदंशकीटमशक्रे सपूतिकृमिमूषिके।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे।।
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह।
यच्च मूर्तिमयं किचित्सर्वत्रैतन्निदर्शनम्।।
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः।
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम।।
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञितम्।
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः।।
एतद्धि क्षरमित्युक्तं क्षरतीदं यथा जगत्।
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम्।।
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम्।
कथितं ते महाराजन्यस्मान्नावर्तते पुनः।।
पञ्चर्विशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञितः।
तत्त्वसंश्रयणादेतत्तत्वमाहुर्मनीषिणः।।
यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति।
चतुर्विशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः।।
स एव हृदि सर्वासु मूर्तिष्वात्मावतिष्ठते।
चेतयंश्चेतनान्नित्यं सर्वमूर्तिरमूर्तिमान्।।
सर्वप्रत्ययधर्मिण्यां स सर्गः प्रत्ययात्मकः।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञिते।।
एवमेष महानात्मा सर्गप्रलयकोविदः।
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान्।।
तमः सत्वरजोयुक्तस्तासु तास्विह योनिषु।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात्।।
सहवासनिवासात्मा नान्योऽहमिति मन्यते।
योऽहं सोहमिति ह्युक्त्वा गुणानेवानुवर्तते।।
तमसा तामसान्भावान्विविधान्प्रतिपद्यते।
रजसा राजसांश्चैव सात्विकान्सत्वसंश्रयात्।।
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु।
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै।।
तामसा निरयं यान्ति राजसा मानुपानथ।
सात्विका देवलोकाय गच्छन्ति सुखभागिनः।।
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात्।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः।।
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टाधिकत्रिशततमोऽध्यायः।। 308।।