शांतिपर्व

अध्यायः ३०७

Santi Parva (Sanskrit) · Adhyaya 307
अक्षर का आकार

युधिष्ठिर उवाच।

सम्पक्त्वयाऽयं नृपते वर्णितः शिष्टसंमतः।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा।।

साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते।।

भीष्म उवाच।

शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम्।
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः।।

यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला।।

ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा।।

राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा।
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा।।

पितृणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप।
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा।।

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा।
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च।।

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान्।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा।।

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर।।

प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम्।
तिर्यक्षु पततां दुःखं पततां नरके च यत्।।

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत।
`परिसंख्यानसंख्यानं सत्वं सांख्यगुणात्मकम्।'
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः।।

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप।
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप।
`इतरेषु च ये दोषा गुणास्तेषु च भारत।।'

सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा।
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा।।

षङ्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा।।

द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः।
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः।।

ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभाः।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्।।

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च।।

त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम्।।

विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम्।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः।।

तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम्।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्।।

बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम्।
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि।।

सक्तमात्मानमीशे च देवे नारायणे तथा।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्।।

ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते।।

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्।।

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।।

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः।
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः।।

सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान्।।

सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षीश्च परंतप।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान्।।

ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप।
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव।।

गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये।।

योनीषु च विचित्रासु संसारानशुभांस्तथा।
जठरे चाशुभे वासं शोणितोदकभाजने।।

श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे।।

सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ।
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप।।

तामसानां च जन्तूनां रमणीयावृतात्मनाम्।
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ।।

गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम्।
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा।।

ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपण नृप।।

अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्।।

रागे मोहे च संप्राप्ते क्वचित्सत्वं समाश्रितम्।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः।।

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः।।

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान्।।

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्।।

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्।
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्।।

जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः।।

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्
तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक्।।

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा।
क्षयं संवत्सराणां च मासानां च क्षयं तथा।।

पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा।।

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च।।

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा।।

वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः।
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह।।

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः।।

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्।
स्वदेहादुत्थितान्गब्धांस्तथा विज्ञाय चाशुभान्।
`मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान्।।'

युधिष्ठिर उवाच।

कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः।।

भीष्म उवाच।

पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन।।

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।।

एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्।
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।।

सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप।।

गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः।।

अपां फेनोपमं लोकं विष्णोर्मायाशतैश्वितम्।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्।।

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्।
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम्।।

रजस्तमसि संमग्नं पङ्के द्वीपमिवावशम्।
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतं।।

ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप।
राजसानशुभान्गन्धांस्तांमसांश्च तथाविधान्।।

पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान्।
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत।।

ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम्।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम्।।

तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिंदम्।।

कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम्।
हिंसाशीघ्रमहावेगं नानारससमाकरम्।।

नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्।।

अस्थिसंघातसंघट्टं श्लेष्मफेनमरिंदम्।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम्।।

हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्।
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्।

पुत्रदारजलौकौघं मत्रिबान्धवपत्तनम्।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्।।

वेदान्तगमनद्वीपं सर्वभूतदयोदकम्।
मोक्षदुर्लाभविषयं व़डवामुखसागरम्।।

तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः।।

तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः।
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप।।

तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत।
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान्।।

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत।
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान्।
स तान्वहति कौन्तेय नभसः परमां गतिम्।।

नभो वहति लोकेश रजसः परमां गतिम्।
`तमो वहति लोकेश रजसः परमां गतिम्।'
रजो वहति राजेन्द्र सत्वस्य परमां गतिम्।।

सत्वं वहति राजेन्द्र परं नारायणं प्रभुम्।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना।।

परमात्मानमासाद्य तद्भूता यतयोऽमलाः।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो।।

परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्।
सत्यार्जवरतानां वै सर्वभूतदयावताम्।।

युधिष्ठिर उवाच।

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ।।

यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव।।

मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन्।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे।।

प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप।
मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत्।

भीष्म उवाच।

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः।
बुधानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ।।

अत्रापि तत्त्वं परमं शृणु सम्यङ्भयेरितम्।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्।।

इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः।।

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु।
विनश्यन्ति न संदेहः फेना इव महार्णवे।।

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः।।

स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो।
बुध्यमानो यथापूर्वमखिलेनेह भारत।।

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव।।

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः।।

सत्वस्य च गुणान्कृत्स्नान्नजसश्च गुणान्पुनः।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत।।

गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः।
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः।।

अपां गुणांस्तथा पार्थ पार्थिंवांश्च गुणानपि।
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर।।

आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो।।

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम्।।

विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम्।
परमात्मानमगुणं न निवर्तति भारत।।

शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः।।

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा।।

साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम्।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते।।

अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम्।
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम्।।

अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम्।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः।।

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः।।

सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम्।।

प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः।
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः।।

अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ।।

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते।
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते।।

ज्ञानं महद्यद्धि महत्सु राज
न्वेदेषु साङ्ख्येषु तथैव योगे।
यच्चापि दृष्टं विविधं पुराणे
साङ्ख्यागतं तन्निखिलं नरेन्द्र।।

यच्चेतिहासेषु महत्सु दृष्टं
यच्चार्थशास्त्रे नृप शिष्टजुष्टे।
ज्ञानं च लोके यदिहास्ति किंचि
त्साङ्ख्यागतं तच्च महन्महात्मन्।।

शमश्च दृष्टः परमं बलं च
ज्ञानं च साङ्ख्यं च यथावदुक्तम्।
तपांसि सूक्ष्माणि सुखानि चैव
साङ्ख्ये यथावद्विहितानि राजन्।।

विपर्यये तस्य हि पार्थ देवा
न्गच्छन्ति साङ्ख्याः सततं सुखेन।
तांश्चानुसंचार्य ततः कृतार्थाः
पतन्ति विप्रेषु यतेषु भूयः।।

हित्वा च देहं प्रविशन्ति मोक्षं
दिवौकसो द्यामिव पार्थ साङ्ख्याः।
अतोऽधिकं तेऽभिरता महार्थे
साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे।।

तेषां न तिर्यग्गमनं हि दृष्टं
नार्वाग्गतिः पापकृताधिवासः।
च चाबुधानामपि ते द्विजातयो
ये ज्ञानमेतन्नृपतेऽनुरक्ताः।।

साङ्ख्यं विशालं परमं पुराणं
महार्णवं विमलमुदाहरन्ति
कृत्स्नं च साङ्ख्यं नृपते महात्मा
नारायणो धारयतेऽप्रमेयम्।।

एतन्मयोक्तं नरदेव तत्त्वं
नारायणो विश्वमिदं पुराणम्।
स सर्गकाले च करोति सर्गं
संहारकाले च तदत्ति भूयः।।

संहृत्य सर्वं निजदेहसंस्थं
कृत्वाऽप्सु शेते जगदन्तरात्मा।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्ताधिकत्रिशततमोऽध्यायः।। 307।।