शांतिपर्व
अध्यायः ३०९
वसिष्ठ उवाच।
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात्।
देहाद्देहसहस्राणि तथा समभिपद्यते।।
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि।
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात्।।
मानुषत्वाद्दिवं याति दिवो मानुष्यमेति च।
मानुष्यान्निरयस्थानमनन्तं प्रतिपद्यते।।
कोशकारो यथाऽऽत्मानं कीटः समनुरुन्धति।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः।।
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे।।
जलोदरे तृषारोगे ज्वरगण्डे विषूचके।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि।।
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु।
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते।।
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि।।
शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा।
मण्डूकशायी च तथा वीरासनगतस्तथा।।
चीरधारणमाकाशे शयनं स्थानमेव च।
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा।।
भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः।
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च।।
विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा।
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च।।
शणवालपरीधानो व्याघ्रचर्मपरिच्छदः।
सिंहतचर्मपरीधानः पट्टवासास्तथैव च।।
फलकपरिधानश्च तथा कण्टकवस्रधृत्।
कीटकार्पासवसनश्चीरवासास्तथैव च।।
वस्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्।
भोजनानि विचित्राणि रत्नानि विविधानि च।।
एकवस्रान्तराशित्वमेककालिकभोजनम्।
चतुर्थाष्टमकालश्च षष्ठकालिक एव च।।
ष़ड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः।
सप्तरात्रदशाहारो द्वादशाहिकभोजनः।।
मासोपवासी मूलाशी फलाहारस्तथैव च।
वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः।।
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च।
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन्।।
वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया।।
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च।
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि।।
उपाश्रमानप्यपरान्पाषण्डान्विविधानपि।
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च।।
पुलिनानि विविक्तानि विविक्तानि वनानि च।
देवस्थानानि पुण्यानि विविक्तानि सरांसि च।।
विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः।
विविक्तानि च जप्यानि व्रतानि विविधानि च।।
नियमान्विविधांश्चापि विविधानि तपांसि च।
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा।।
वणिक्पथं द्विजक्षत्रं वैश्यं शूद्रांस्तथैव च।
दानं च विविधाकारं दीनान्धकृपणादिषु।।
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान्।
सत्वं रजस्तमश्चैव धर्मार्थौ काम एव च।।
प्रकृत्याऽऽत्मानमेवात्मा एवं प्रवि भजत्युत।
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः।।
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्।
यजनाध्ययने चैव यच्चान्यदपि किंचन।।
जन्ममृत्युविवादे च तथा विशसनेऽपि च।
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम्।।
प्रकृतिः कुरुते देवी भवं प्रलयमेव च।
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते।।
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति।
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते।।
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्।
एवमेव विकुर्वाणः सर्गप्रलयधर्मिणी।।
क्रियां क्रियापथे रक्तस्त्रिगुणांस्त्रिगुणाधिपः।
क्रियां क्रियापथोपेतस्तथा तदभिमन्यते।।
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा।।
एवं द्वन्द्वान्यथैतानि वर्तन्ते मयि नित्यशः।
ममैवैतानि जायन्ते धावन्ते तानि मामिति।।
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप।
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि।।
भोक्तव्यानि मयैतानि देवलोकगतेन वै।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्।।
पुण्यमेव तु कर्तव्यं तत्कुत्वा सुसुखं मम।
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति।।
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्।
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम्।।
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः।।
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति।
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः।।
तेन देवमनुष्येषु निरये चोपपद्यते।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते।।
सर्गकोटिसहस्राणि मरणान्तासु योनिषु।
य एवं कुरुते कर्म शुभाशुभफलात्मकम्।।
स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान्।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा।।
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च।
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानिह।।
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे।
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते।।
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्।
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि पश्यति।।
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ।
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह।।
अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह।
निरिन्द्रियो हि मन्तेत व्रणवानस्मि निर्व्रणः।।
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः।
असत्वं सत्वमात्मानमतत्त्वं तत्त्वमात्मनः।।
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः।
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः।।
अतपास्तप आत्मानमगतिर्गतिमात्मनः।
अभवो भवमात्मानमभयो भयमात्मनः।।
`अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः।'
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
नवाधिकत्रिशततमोऽध्यायः।। 309।।