शांतिपर्व

अध्यायः ३०६

Santi Parva (Sanskrit) · Adhyaya 306
अक्षर का आकार

युधिष्ठिर उवाच।

साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि।
तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम।।

भीष्म उवाच।

साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः।
वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै।।

अनीश्वरः कथं मुच्येदित्येवं शत्रुसूदन।
वदन्ति कारणश्रैष्ठ्यं योगाः सम्यङ्भनीषिणः।।

वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः।।

ऊर्ध्वं च देहात्सुव्यक्तं विमुच्येदिति नान्यथा।
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम्।।

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्।
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः।।

प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः।
उभे चैते मते तत्त्वे मम तात युधिष्ठिर।।

उभे चैते मते ज्ञाने नृपते शिष्टसंमते।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्।।

तुल्यं शौचं तयोरेकं दया भूतेषु चानघ।
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः।
`तयोस्तु दर्शनं सम्यक्सूक्ष्माभावे प्रसज्यते।।'

युधिष्ठिर उवाच।

यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा।
न तुल्यं दर्शनं कस्मात्तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्।
योगाच्छित्त्वा ततो दोषान्पञ्चैतान्प्राप्नुवन्ति ते।।

यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्।
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः।।

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः।।

लोभजानि तथा राजन्बन्धनानि बलान्विताः।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शिवम्।।

अबलाश्च मृगा राजन्वागुरासु यथा परे।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते।।

बलहीनाश्च कौन्तेय यथा जालं गता झषाः।
अन्तं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः।।

यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदम।
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः।।

कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप।
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः।।

अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगो बलः प्रभो।।

स एव च यदा राजन्वह्निर्जातबलः पुनः।
समीरणयुतः क्षिप्रं दहेत्कृत्स्नां महीमपि।।

तद्वज्जातबलो योगी दीप्ततेजा महाबलः।
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्।।

दुर्बलश्च यथा राजन्स्रोतसा हियते नरः।
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः।।

तदेव च महास्रोतो विष्टम्भयति वारणः।
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून्।।

विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः।
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः।।

न यमो नान्तकः क्रुद्धो न नृत्युर्भीमविक्रमः।
ईशते नृपते सर्वे योगस्यामिततेजसः।।

आत्मनां च सहस्राणि बहूनि भरतर्षभ।
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्।।

प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत्।
संक्षिपेच्च पुनस्तात सूर्यस्तेतोगुणानिव।।

बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव।
विमोक्षे प्रभविष्णुत्वमुपपन्नमसंशयम्।।

बलानि योगप्राप्तानि मयैतानि विशांपते।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव।।

आत्मनश्च समाधाने धारणां प्रति वा विभो।
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ।।

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसशयम्।।

स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः।।

युक्तस्तथाऽयमात्मानं योगः षार्थिव निश्चलम्।
करोत्यमलमात्मानं भास्करोपमदर्शनम्।।

यथा च नावं कौन्तेय कर्णधारः समाहितः।
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम्।।

तद्वदात्मसमाधानं युक्त्वा योगेन तत्ववित्।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप।।

सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः।
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ।।

तथैव नृपते योगी धारणासु समाहितः।
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः।।

आवेश्यात्मनि चात्मानं योगी तिष्ठति योचलः।
पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम्।।

नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः।
दर्शने श्रवणे चापि घ्राणे चामितविक्रम।।

स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशांपते।।

स शीघ्रमचलप्रख्यं कर्म दग्ध्या शुभाशुभम्।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते।।

युधिष्ठिर उवाच।

आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति।।

भीष्म उवाच।

कणानां भक्षणे युक्तः पिण्याकस्य च भारत।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात्।।

भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम्।
एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात्।।

पक्षान्मासानृतूंश्चैतान्संवत्सरानहस्तथा।
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात्।।

अखण्डमपि वा मांसं सततं मनुजेश्वर।
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात्।।

कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च।
भयं शोकं तथा श्वासं पौरुषान्विषयांस्तथा।।

अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव।
स्पर्शं निद्रां तथा तन्द्रीं दुर्जयां नृपसत्तम।।

दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना।
वीतरागा महाप्रज्ञा ध्यानाध्ययनसंपदा।।

दुर्गस्त्वेप मतः पन्था ब्राह्मणानां विपश्चिताम्।
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ।।

यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम्।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम्।।

अभक्षमटवीप्रायं दावदग्धमहीरुहम्।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा।।

योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः।
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः।।

सुस्थेयं क्षुरधारासु निशितासु महीपते।
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः।।

विपन्ना धारणास्तात नयन्ति न शुभां गतिम्।
नेतृहीना यथा नावः पुरुषानर्णवे नृप।।

यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि।
मरणं जन्म दुःखं च सुखं च स विमुञ्चति।।

नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम्।
परं योगस्य यत्कृत्यं निश्चितं तद्द्विजातिषु।।

परं हि तद्ब्रह्ममयं महात्म
न्ब्रह्माणमीशं वरदं च विष्णुम्।
भवं च धर्मं च ष़डाननं च
षट्‌ब्रह्मपुत्रांश्च महान्‌भावान्।।

तमश्च कष्टं सुमहद्रजश्च
सत्वं विशुद्धं प्रकृतिं परां च।
सिद्धिं च देवीं वरुणस्य पत्नीं
तेजश्च कृत्स्नं सुमहच्च धैर्यम्।।

ताराधिपं खे विमलं सतारं
विश्वांश्च देवानुरगान्पितृंश्च।
शैलांश्च कृत्स्नानुदधींश्च घोरा
न्नदीश्च सर्वाः सवनान्घनांश्च।।

नागान्नगान्यक्षगणान्दिशश्च
गन्धर्वसंघान्पुरुषान्स्त्रियश्च।
परात्परं प्राप्य महान्महात्मा
विशेत योगी नचिराद्विमुक्तः।।

कथा च येयं नृपते प्रसक्ता
देवे महावीर्यतमौ शुभेयम्।
योगी स सर्वानभिभूय मर्त्या
न्नारायणात्मा कुरुते महात्मा।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
षडधिकत्रिशततमोऽध्यायः।। 306।।