शांतिपर्व

अध्यायः ३०५

Santi Parva (Sanskrit) · Adhyaya 305
अक्षर का आकार

युधिष्ठिर उवाच।

सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह।
विद्वांसो मनुजा लोके कथमेतन्मतं तव।।

भीष्म उवाच।

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर।।

हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्।।

साध्या ऊचुः।

शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्।।

श्रुतोसि नः पण्डितो धीरवादी
साधुः शब्दश्चरते ते पतत्रिन्।
किं मन्यसे श्रेष्ठतमं द्विज त्वं
कस्मिन्मनस्ते रमते महात्मन्।।

तन्नः कार्यं पक्षिवर प्रशाधि
यत्कार्याणां मन्यसे श्रेष्ठमेकम्।
यत्कृत्वा वै पुरुषः सर्वबन्धै
र्विमुच्यते विहगेन्द्रेह शीघ्रम्।।

हंस उवाच।

इदं कार्यममृताशाः शृणुध्वं
तपो दमः सत्यमात्माभिगुप्तिः।
ग्रन्थीन्विमुच्य हृदयस्य सर्वा
न्प्रियाप्रिये स्वं वशमानयीत।।

नारुतुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत
न तां वदेदुशतिं पापलोक्याम्।।

वाक्सायका वदनान्निष्यतन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेषु।।

परश्चेदेनमतिवादवाणै
र्भृशं विध्येच्छम एवेह कार्यः।
संरोष्यमाणः प्रतिहृष्यते यः
स आदत्ते सुकृतं वै परस्य।।

क्षेपायमाणमभिषङ्गव्यलीकं
निगृह्णाति ज्वलितं यश्च मन्युम्।
अदुष्टचेता मुदितोऽनसूयुः
स आदत्ते सुकृतं वै परेषाम्।।

आक्रुश्यमानो न वदामि किंचि
त्क्षमाम्यहं ताड्यमानश्च नित्यम्।
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः
सत्यं तथैवार्जवमानृशंस्यम्।।

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम्।।

वाचो वेगं मनसः क्रोधवेगं
विधित्सावेगमुदरोपस्थवेगम्।
एतान्वेगान्यो विषहेदुदीर्णां
स्तं मन्येऽहं ब्राह्मणं वै मुनिं च।।

अक्रोधनः क्रुध्यतां वै विशिष्ट
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषान्मानुषो वै विशिष्ट
स्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः।।

आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति।।

यो नायुक्तः प्राह रूक्षं प्रियं वा
यो वा हतो न प्रतिहन्ति धैर्यात्।
पापं च यो नेच्छति तस्य हन्तु
स्तस्येह देवाः स्पृहयन्ति नित्यम्।।

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च।
विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति।।

सदाऽहमार्यान्निभृतोप्युपासे
न मे विधित्सोत्सहते न रोषः।
न चाप्यहं लिप्समानः परैमि
न चैव किंचिद्विषमेण यामि।।

नाहं शप्तः प्रतिशपामि कंचि
द्दमं द्वारं ह्यमृतस्येह वेद्मि।
गुह्यं ब्रह्म तदिदं ब्रवीमि
न मानुषाच्छ्रेष्ठतरं हि किंचित्।।

निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति।।

यः सर्वेषां भवति ह्यर्चनीय
उत्सेचने स्तम्भ इवाभिजातः।
यस्मै वाचं सुप्रसन्नां वदन्ति
स वै देवान्गच्छति संयतात्मा।।

न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः।।

यस्य वाङ्भनसी गुप्ते सम्यक्प्रणिहिते सदा।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्।।

आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेंत्।।

अमृतस्येव संतृप्येदवमानस्य पण्डितः।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति।।

यत्क्रोधनो यजति यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति।
वैवस्वतस्तद्धरतेऽस्य सर्वं
मोघः श्रमो भवति हि क्रोधनस्य।।

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्।।

सत्यं दमं ह्यार्जवमानृशंस्यं
धृतिं तितिक्षामभिसेवमानः।
स्वाध्यायनित्योऽस्पृहयन्यरेषा
मेकान्तशील्यूर्ध्वगतिर्भवेत्सः।।

सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान्।
न पावनतमं किंचित्सत्याद्गध्यगमं क्वचित्।।

आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव।।

यादृशैः संविवदते यादृशांश्चोपसेवते।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः।।

यदि सन्तं सेवति यद्यसन्तं
तपस्विनं यदि वा स्तेनमेव।
वासो यथा रागवशं प्रयाति
तथा स तेषां वशमभ्युपैति।।

सदा देवाः साधुभिः संवदन्ते
न मानुषं विषयं यान्ति द्रष्टुम्।
नेन्दुः समः स्यादसमो हि वायु
रुच्चावचं विषयं यः स वेद।।

अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै।।

विश्नोदरे ये निरताः सदैव
स्तेना नरा वाक्यरुषाश्च नित्यम्।
अपेतधर्मानिति तान्विदित्वा
दूराद्देवः संपरिवर्जयन्ति।।

न वै देवा हीनसत्वेन तोष्याः
सर्वाशिना दुष्कृतकर्मणा वा।
सत्यव्रता ये तु नराः कृतज्ञा
धर्मे रतास्तैः सह संभजन्ते।।

अव्याहृतं व्याहृताच्छ्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम्।
धर्म्यं वदेद्व्याहृतं तत्तृतीयं
प्रियं वदेद्व्याहृतं तच्चतुर्थम्।।

साध्या ऊचुः।

केनायमावृतो लोकः केन वा न प्रकाशते।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति।।

हंस उवाच।

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति।।

साध्या ऊचः।

कः स्विदेको रमते ब्राह्मणानां
कः स्विदेको बहुभिर्जोषमास्ते।
कः स्विदेको बलवान्दुर्बलोपि
कः स्विदेषां कलहं नान्ववैति।।

हंस उवाच।

प्राज्ञ एको रमते ब्राह्मणानां
प्राज्ञश्चैको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि
प्राज्ञ एषां कलहं नान्वबैति।।

साध्या ऊचुः।

किं ब्राह्मणानां देवत्वं किंच साधुत्वमुच्यते।
असाधुत्वे च किं तेषां किमेषां मानुषं मतम्।।

हंस उवाच।

स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते।।

भीष्म उवाच।

` इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः।
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः।।

एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम्।
दर्शितं देवदेवेन परमेणाव्ययेन च।।'

संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चाधिकत्रिशततमोऽध्यायः।। 305।।