शांतिपर्व

अध्यायः ३०४

Santi Parva (Sanskrit) · Adhyaya 304
अक्षर का आकार

भीष्म उवाच।

पुनरेव तु पप्रच्छ जनको मिथिलाधिपः।
पराशरं महात्मानं धर्मे परमनिश्चयम्।।

जनक उवाच।

किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते।।

पराशर उवाच।

असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा।
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति।।

छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते।
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते।।

यो ददाति सहस्राणि गवामश्वशतानि च।
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते।।

वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि।।

नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत्।
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत्।।

नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति।
कर्ता खलु यथाकालं ततः समभिपद्यते।।

न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः।
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते।
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम्।।

वीतरागो जितक्रोधः सम्यग्भवति यः सदा।
विषये वर्तमानोऽपि न स पापेन युज्यते।।

मर्यादायां वर्तमानोऽपि नावसीदति।
पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः।।

यथा भानुगतं तेजो मणिः शुद्धः समाधिना।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते।।

यथा तिलानामिह पुण्यसंश्रया
त्पृथक्पृथग्याति गुणोऽतिसाम्यताम्।
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्वगुणः प्रवर्तते।।

जहाति दारान्विविधाश्च संपदः
पदं च यानं विविधाश्च सत्क्रियाः।
त्रिविष्टपे जातमतिर्यदा नर
स्तदाऽस्य बुद्धिर्विषयेषु भिद्यते।।

प्रसक्तबुद्धिर्विषयेषु यो नरो
न बुध्यते ह्यात्महितं कथंचन।
स सर्वभावानुगतेन चेतसा
नृपाऽऽमिषेणेव झषो विकृष्यते।।

संघातवन्मर्त्यलोकः परस्परमपाश्रितः।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति।।

न धर्मकालः पुरुषस्य निश्चितो
न चापि मृत्युः पुरुषं प्रतीक्षते।
सदा हि धर्मस्य क्रियैव शोभना
तदा नरो मृत्युमुखान्निवर्तते।।

यथाऽन्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति।
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्।।

मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्।
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्।।

बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च।
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमांत्महितं विदुः।।

यथा मृणालानुगतमाशु मुञ्चति कर्दमम्।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते।।

मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति।
युक्तो यदा स भवति तदा तं पश्यते परम्।।

परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते।
इन्द्रियार्थेषु सक्तः स स्वकार्यात्परिहीयते।।

अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्।
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च।।

मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः।
तथा शरीरं तपसा तप्तं विषयमश्नुते।।

विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति।।

नीहारेण हि संवीतः शिश्नोदरपरायणः।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते।।

वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्।
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः।।

अहोरात्रमये लोके जरारूपेण संचरन्।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा।।

स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते।
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम्।।

सयानं यान्तमासीनं प्रवृत्तं विषयेषु च।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा।।

न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे।।

यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना।
यथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति।।

यथा समुद्रमभितः संश्रिताः सरितोऽपराः।
तथाऽन्याप्रकृतिर्योगादभिसंश्रियते सदा।।

स्नेहपाशैर्बहुविधैरासक्तमनसो नराः।
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत्।।

शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः।
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च।।

विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः।।

संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते।।

न माता न पिता किंचित्कस्यचित्प्रतिपद्यते।
दानपथ्यौदनो जन्तु स्वकर्मफलमश्नुते।।

माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा।
अष्टापदपदस्थाने लाक्षामुद्रेव लक्ष्यते।।

सर्वाणि कर्माणि पुराकृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोः।
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा।।

व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति।
न तस्य कश्चिदारम्भः कदाचिदवसीदति।।

अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्।
न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः।।

आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया।
य आरभत्यनिन्द्यात्मा न सोऽर्थात्परिसीदति।।

सर्वःस्वानि शुभाशुभानि नियतं कर्माणि जन्तुःस्वयं
गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत्

स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धिसंचयम्।
नरो हि सर्वो भलते यथाकृतं
शुभाशुभेनात्मकृतेन कर्मणा।।

भीष्म उवाच।

इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुरधिकत्रिशततमोऽध्यायः।। 304।।