शांतिपर्व

अध्यायः ३०३

Santi Parva (Sanskrit) · Adhyaya 303
अक्षर का आकार

पराशर उवाच।

पिता सखायो गुरवः स्त्रियश्च
न निर्गुणानां प्रभवन्ति लोके।
अनन्यभक्ताः प्रियवादिनश्च
हिताश्च वश्याश्च तथैव राजन्।।

पिता परं दैवतं मानवानां
मातुर्विशिष्टं पितरं वदन्ति।
ज्ञानस्य लाभं परमं वदन्ति
जितेन्द्रियार्थाः परमाप्नुवन्ति।।

रणाजिरे यत्र शराग्निसंस्तरे
नृपात्मजो घातमवाप्य दह्यते।
प्रयाति लोकानमरैः सुदुर्लभा
न्निषेवते स्वर्गफलं यथासुखम्।।

श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं
पराङ्भुखं पारिवर्हैश्च हीनम्।
अनुद्यन्तं रोगिणं याचमानं
न वै हिंस्याद्बालवृद्धौ च राजन्।।

पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम्।
अतिक्रमेत्तं नृपतिः संग्रामे क्षत्रियात्मजम्।।

तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः।।

पापात्पापसमाचारान्निहीनाच्च नराधिप।
पाप एष वधः प्रोक्तो नरकायेति निश्चयः।।

न कश्चित्राति वै राजन्दिष्टान्तवशमागतम्।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति।।

स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा।।

गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्।
निधनं शोभनं तात पुलिनेषु क्रियावताम्।।

आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति।
तथा ह्यकारणाद्भवति कारणैरुपपादितम्।।

तथा शरीरं भवति देहाद्येनोपपादितम्।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्।।

द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते।।

शिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्।
भूतानामिन्द्रियाणां च गुणानां च समागमम्।।

त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्।।

शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति।।

भावितं कर्मयोगेन जायते तत्रतत्र ह।
इदं शरीरं वैदेह म्रियते यत्रयत्र ह।
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा।।

न जायते तु नृपते कंचित्कालमयं पुनः।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्।।

स पुनर्जायते राजन्प्राप्येहायतनं नृपः।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः।।

विविधानां च भूतानां जङ्गमाः परमा नृप।
जङ्गमानामपि तथा द्विपदाः परमा मताः।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः।।

द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः।
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः।।

जातमन्वेति मरणं नृणामिति विनिश्चयः।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः।।

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्।।

अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम्।
मृत्युनाऽऽत्मकृतेनेह कर्म कृत्वाऽऽत्मशक्तितः।।

विषमुद्बन्धनं दाहो दस्युहस्तात्तथ वधः।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते।।

न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि।।

ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्।।

एकः शत्रुर्न द्वितीयोस्ति शत्रु
रज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते संप्रयुक्तो
घोराणि कर्माणि सुदारुणानि।।

प्रबोधनार्थं श्रुतिधर्मयुक्तं
वृद्धानुपास्य प्रभवेत यस्य।
प्रयत्नसाध्यो हि स राजपुत्र
प्रज्ञाशरेणोन्मथितः परैति।।

अधीत्य वेदं तपसा ब्रह्मचारी
यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च।
वनं गच्छेत्पुरुषो धर्मकामः
श्रेयः कृत्वा स्थापयित्वा स्ववंशम्।।

उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम्।।

इयं हि योनिः प्रथमा यां प्राप्य जगतीयते।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः।।

कथं न विप्रणश्येम योनितोस्या इति प्रभो।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्।।

यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते।।

यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति।
दीपोपमानि भूतानि यावदर्थान्न पश्यति।।

सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत।
समदुःखसुखो भूत्वा स परत्र महीयते।।

दानं त्यागः शोभना मुर्तिमद्भ्यो
भूयः प्लाव्यं तपसा वै शरीरम्।
सरस्वतीनैमिषपुष्करेषु
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्।।

गृहेषु येषामसवः पतन्ति
तेषामथो निर्हरणं प्रशस्तम्।
यानेन वै प्रापणं च श्मशाने
शुचौ देशे विधिना चैव दाहः।।

इष्टिः पुष्टिर्यजनं याजनं च
दार्ग पुण्यानां कर्मणां च प्रयोगः।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं
सर्वाण्यात्मार्थे मानवोऽयं करोति।।

`गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम्।
निधनं शोभनं तात पुलिनेषु क्रियावताम्।।'

धर्मशास्त्राणि वेदाश्च ष़डङ्गानि नराधिप।
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः।।

भीष्म उवाच।

एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना।
विदेहराजाय पुरा श्रयेसोर्थे नराधिप।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्र्यधिकत्रिशततमोऽध्यायः।। 303।।