शांतिपर्व
अध्यायः ३०२
जनक उवाच।
वर्णो विशेषवर्णानां महर्षे केन जायते।
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर।।
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः।।
पराशर उवाच।
एवमेतन्महाराज येन जातः स एव सः।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः।।
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः।
अतोऽन्यतरतो हीनादवरो नाम जायते।।
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः।।
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः।।
चतुर्णामेव वर्णानामागमः पुरुषर्षभ।
अतोन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः।।
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः।।
अयोगाः कारणा व्रात्याश्चाण्डालाश्च नराधिप।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात्।।
जनक उवाच।
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम।।
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे।।
पराशर उवाच।
राजन्नैतद्भवेद्ब्राह्ममपकृष्टेन जन्मना।
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम्।।
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः।।
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः।
वेदस्ताण्ड्यः कृपश्चैव काक्षीवत्कमठादयः।।
यवक्रीतश्च नृपते द्रोणश्च वदतांवरः।
आयुर्मतङ्गो दत्तश्च द्रुमदो मात्स्य एव च।।
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो बलात्।
प्रतिष्ठिता वेदविदो दमेन तपसैव हि।।
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च।।
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव।
नामधेयानि तपसा तानि च ग्रहणं सताम्।।
जनक उवाच।
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम।
ततः सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि।।
पराशर उवाच।
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप।
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना।।
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि।
द्विजानां परिचर्या च शूद्रकर्म नराधिप।।
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे।।
आनृशंस्यमर्हिसा चाप्रमादः संविभागिता।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च।।
स्वेषु दारेषु संतोषः शौचं नित्याऽनसूयता।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप।।
ब्राह्मणाः क्षत्रिया वैश्यास्रयो वर्णा द्विजातयः।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर।।
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः।
उन्नमन्ति यथा सन्त आश्रित्येह स्वकर्मसु।।
न चापि शूद्रः पततीति निश्चयो
न चापि संस्कारमिहार्हतीति वा।
श्रुतिप्रयुक्तं न च धर्ममाप्नुते
न चास्य धर्मे प्रतिषेधनं कृतम्।।
वैदेहकं शूद्रमुदाहरन्ति
द्विजा महाराज श्रुतोपपन्नाः।
अहं हि पश्यामि नरेन्द्र देवं
विश्वस्य विष्णुं जगतः प्रधानम्।।
सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः।।
यथायथा हि सद्वॄत्तमालम्बन्तीतरे जनाः।
यथातथा सुखं प्राप्य प्रेत्य चेह च मोदते।।
जनक उवाच।
किं कर्म दूषयत्येनमथो जातिर्महामुने।
संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि।।
पराशर उवाच।
असंशयं महाराज उभयं दोषकारकम्।
कर्म चैव हि जातिश्च विशेषं तु निशामय।।
जात्या च कर्मणा चैव दुष्टं कर्म न सेवते।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः।।
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्
कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम्।।
जनक उवाच।
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम्।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा।।
पराशर उवाच।
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा।।
संन्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः।
नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम्।।
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः।
पयान्ति स्थानमजरं सर्वकर्मविवर्जिताः।।
सर्वे वर्णा धर्मकार्याणि सम्यक्
कृत्वा राजन्सत्यवाक्यानि चोक्त्वा।
त्यक्त्वा धर्मं दारुणं जीवलोके
यान्ति स्वर्गं नात्र कार्यो विचारः।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
द्व्यधिकत्रिशततमोऽध्यायः।। 302।।