शांतिपर्व

अध्यायः ३०१

Santi Parva (Sanskrit) · Adhyaya 301
अक्षर का आकार

पराशर उवाच।

एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु।।

प्रायेण च गृहस्थस्य ममत्वं नाम जायते।
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः।।

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै।।

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः।।

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्।
मोहजस्तारतिर्नाम समुपैति नराधिप।।

कृतार्थ भोगिनं मत्वा सर्वो रतिपरायणः।
लाभं प्रात्यसुखादन्यं रतितो नानुपश्यति।।

ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम्।
दुष्टार्थं चैव तस्येह जनस्यार्थं चिकीर्षति।।

स जानत्रपि चाकार्यमर्थार्थं सेवते नरः।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते।।

ततो दानेन संपन्नो रक्षन्नात्मपराजयम्।
करोति येन भोनी स्यामिति तस्माद्विनश्यति।।

तद्यदि वुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम्।
अभिच्छतां शुभं कर्म नराणां त्यजतां सुखम्।।

लोकायतननाशाच्च धननाशाच्च पार्थिव।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति।।

निर्वेदादात्मसंबोधः संबोधादात्मदर्शनम्।
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति।।

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति।।

तपः सर्वगतं तात हीनस्यापि विधीयते।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम्।।

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः।
क्वचित्क्वचिद्ब्रतपरो व्रतान्यास्थाय पार्थिव।।

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः।।

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः।।

ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा।।

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्।।

कौशेयानि च वस्त्राणि शुभान्याभरणानि च।
वाहनासनपानानि तत्सर्वं तपसः फलम्।।

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्।।

शयनानि च मुख्यानि भोज्यानि विविधानि च।
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम्।।

नाप्राप्यं तपसः किंचिन्त्रैलोक्येऽपि परंतप।
उपभोगपरित्यागः फलान्यकृतकर्मणाम्।।

सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत्।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम।।

असंतोषोऽसुखथायेति लोभादिन्द्रियविभ्रमः।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता।।

नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत्।।

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्।।

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते।
प्राकाश्यं चैवं गच्छन्ति कृत्वा निष्कल्मषं तपः।।

अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम्।
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम्।।

धर्मे तपसि दाने च विचिकित्साऽस्य जायते।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते।।

सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम्।
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः।।

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता।
रसने दर्शने घ्राणे श्रवणे च विशांपते।।

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः।
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम्।।

ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः।
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते।।

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः।।

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्।
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम्।।

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्।
तेषां नान्यदृते लोके तपसः कर्म विद्यते।।

सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम्।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप।।

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
एकाधिकत्रिशततमोऽध्यायः।। 301।।