शांतिपर्व
अध्यायः ३००
पराशर उवाच।
प्रतिग्रहार्जिता विप्रे क्षत्रिये युधि निर्जिताः।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः।।
स्वल्पाऽप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः।
नित्यं त्रयाणां वर्णानां शुश्रूषुः शूद्र उच्यते।।
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतते द्विजः।
शूद्रधर्मा यदा तु स्यात्तदा पतति वै द्विजः।।
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजिवनम्।
सूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते।।
रङ्गावतरणं चैव तथा रूपोपजीवनम्।
मद्यमांसोपजीव्यं च विक्रयं लोहचर्मणोः।।
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रूतिः।।
संसिद्धः पुरुषो लोके यदाचरति पापकम्।
मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते।।
श्रूयन्ते हि पुराणेषु प्रजा धिग्दण्डशासनाः।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवृत्तिकाः।।
धर्म एव सदा नॄणामिह राजन्प्रशस्यते।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि।।
तं धर्ममसुरास्तात नामृष्यन्त नराधिप।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः।।
तासां दर्पः समभवत्प्रजानां धर्मनाशनः।
दर्पात्मनां ततः पश्चात्क्रोधस्तासामजायत।।
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत।।
ततो मोहपरीतास्ता नापश्यन्त यथा पुरा।
परस्परावमर्देन वर्धयन्त्यो यथासुखम्।।
ताः प्राप्य तु स धिग्दण्डो न कारणमतो भवत्।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह।।
एतस्मिन्नेव काले तु देवा देववरं शिवम्।
अगच्छञ्शरणं धीरं बहुरूपं गुणाधिकम्।।
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ।
त्रिधाऽप्येकेन बाणेन देवाप्यायिततेजसा।।
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः।
देवतानां भयकरः स हतः शूलपाणिना।।
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः।
प्रावर्तन्त च वै वेदाः शास्त्राणि च यथा पुरा।।
ततोऽभिषिच्य राज्येन देवानां दिवि वासवम्।
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे।।
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः।
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक्।।
महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये।
तेषामप्यासुरो भावो हृदयान्नापसर्पति।।
तस्मात्तेनैव भावेन सानुषङ्गेण पार्थिवाः।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः।।
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्त्यपि।
भजन्ते तानि चाद्यापि ये बालिशतरा नराः।।
तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः।
संसिद्धावागमं कुर्यात्कर्म हिंसात्मकं त्यजेत्।।
न संकरेण द्रविणं प्रचिन्वीयाद्विचक्षणः।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते।।
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय।।
इष्टानिष्टसमायोगे वैरं सौहार्दमेव च।
अथ जातिसहस्राणि बहूनि परिवर्तते।।
तस्माद्गुणेषु रज्येथा मा दोषेषु कथंचन।
निर्गुणोऽपि हि दुर्बुद्धिरात्मनः सोतिरिच्यते।।
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः।
न तथाऽन्येषु भूतेषु मनुष्यरहितेष्विह।।
धर्मशीलो नरो विद्वानीहकोऽनीहकोपि वा।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसया।।
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै।
नानृतं चैव भवति तदा कल्याणमृच्छति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्रिशततमोऽध्यायः।। 300।।