शांतिपर्व

अध्यायः ३०

Santi Parva (Sanskrit) · Adhyaya 30
अक्षर का आकार

वैशंपायन उवाच।

ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत।
भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसंभवम्।।

एवमुक्तस्तु स मुनिर्धर्मराजेन नारदः।
आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति।।

नारद उवाच।

एवमेतन्महाबाहो यथाऽयं केशवोऽब्रवीत्।
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः।।

अहं च पर्वतश्चैव स्वस्रीयो मे महाप्नुनिः।
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम्।।

तत्रावां पूजितौ तेन विधिदृष्टेन कर्मणा।
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि।।

व्यतिक्रान्तासु वर्षासु समये गमनस्य च।
पर्वतो मामुवाचेदं काले वचनमर्थवत्।।

आवामस्य नरेन्द्रस्य गृहे परमपूजितौ।
उषितौ समये ब्रह्मंस्तद्विचिन्तय सांप्रतम्।।

ततोऽहमब्रुवं राजन्पर्वतं सुभदर्शनम्।
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते।।

वरेण च्छन्द्यतां राजा लभतां यद्यदिच्छति।
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे।।

तत आहूय राजानं सृञ्जयं जयतां वरम्।
पर्वतोऽनुमतो वाक्यमुवाच कुरुपुङ्गव।।

प्रीतौ स्वो नृप सत्कारैर्भवदार्जवसंभृतैः।
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय।।

देवानामविहिंसायां न भवेन्मानुषे क्षमम्।
तद्गृहाण महाराज पूजार्हो नौ मतो भवान्।।

सृञ्जय उवाच।

प्रीतौ भवन्तौ यदि मे कृतमेतावता मम।
एष एव परो लाभो निर्वृत्तो मे महाफलः।।

तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत।
शृणु राजन्सुसंकल्पं यत्ते हृदि चिरं स्थितम्।।

अभीप्ससि सुतं वीरं वीर्यवन्तं दृढव्रतम्।
आयुष्मतं महाभागं देवराजसमद्युतिम्।।

भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति।
देवराजाभिभूत्यर्थं संकल्पो ह्ये ते हृदि।।

सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति।
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः।।

तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः।
प्रसादयामास तदा नैतदेवं भवेदिति।।

आयुष्मान्मे भवेत्पुत्रो भवतोस्तपस मुन।
न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया।।

तमहं नृपतिं दीनमब्रवं पुनरेव च।
स्मर्तव्योऽस्मि महाराज दर्शयिष्यामि ते सुतम्।।

अहं ते दयितं पुत्रं प्रेतराजवशं गतम्।
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते।।

एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्।
सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम्।।

सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये।
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव।।

ववृधे स यथाकालं सरसीव महोत्पलम्।
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्।।

तदद्भुततमं लोके पप्रथे कुरुसत्तम।
बुबुधे तच्च देवेन्द्रो वरदानं मनीषिणोः।।

ततः स्वाभिभवाद्भीतो बृहस्पतिमते स्थितः।
कुमारस्यान्तरप्रेक्षी नित्यमेवाभ्यवर्तत।।

चोदयामास तद्वज्रं दिव्यास्रं मूर्तिमत्स्थ्रितम्।
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो।।

प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति।
सृञ्जयस्य सुतो वज्र यथैनं पर्वतोऽब्रवीत्।।

एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः।
कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत।।

सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम्।
हृष्टः सान्तः पुरो राजा वननित्यो बभूव ह।।

ततो भागीरथीतीरे कदाचिन्निर्जने वने।
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत।।

पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः।
सहसोत्पतितं व्याघ्रमाससाद महाबलम्।।

स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः।
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे।।

हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत।
शार्दूलो देवराजस्य माययान्तर्हितस्तदा।।

धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत्।
अभ्यधावत तं देशं स्वयमेव महीपतिः।।

स ददर्श शयानं तं गतासुं पीतशोणितम्।
कुमारं विगतानन्दं निशाकरमिव च्युतम्।।

स तमुत्सङ्गमारोप्य परिपीडितवक्षसम्।
पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः।।

ततस्ता मातरस्तस्य रुदत्यः शोककर्शिताः।
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः।।

ततः स राजा सस्मार मामेव गतमानसः।
तदाऽहं चिन्तनं ज्ञात्वा गतवांस्तस्य दर्शनम्।।

मयैतानि च वाक्यानि श्रावितः शोकलालसः।
यानि ते यदुवीरेण कथितानि महीपते।।

संजीवितश्चापि पुनर्वासवानुमते तदा।
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा।।

तत ऊर्ध्वं कुमारस्तु स्वर्णष्ठीवी महायशाः।
चित्तं प्रसादयामास पितृर्मातुश्च वीर्यवान्।।

कारयामास राज्यं च पितरि स्वर्गते नृप।
वर्षाणां शतमेकं च सहस्रं भीमविक्रमः।।

तत ईजे महायज्ञैर्बहुभिर्भूरिदक्षिणैः।
तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः।।

उत्पाद्य च बहून्पुत्रान्कुलसतानकारिणः।
कालेन महता राजन्कालधर्ममुपेयिवान्।।

स त्वं राजेन्द्र संजातं शोकमेकं निवर्तय।
यथा त्वं केशवः प्राह व्यामश्च सुमहातपाः।।

पितृपैतामहं राज्यमास्थाय धुरमुद्वह।
इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रिंशोऽध्यायः।। 30।।*