शांतिपर्व

अध्यायः ३१

Santi Parva (Sanskrit) · Adhyaya 31
अक्षर का आकार

वैशंपायन उवाच।

तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्।।

व्यास उवाच।

प्रजानां पालनं धर्मो राज्ञां राजीवलोचन।
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम्।।

अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम्।
ब्राह्मणेषु तु यो धर्मः स नित्यो वेदनिश्चितः।।

तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता।।

तथा यः प्रतिहन्त्यस्य शासनं विषये नरः।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः।।

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः।
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन।।

पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा।
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्विषम्।।

धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा।
ते त्वया धर्महन्तारो निहताः सपदानुगाः।।

स्वधर्मे वर्तमानस्त्वं किंनु शोचसि पाण्डव।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः।।

युधिष्ठिर उवाच।

न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन।
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर।।

मया त्ववध्या बहवो घातिता राज्यकारणात्।
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च।।

व्यास उवाच।

ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्।।

ईश्वरेण नियुक्तो हि साध्वसाधु च भारत।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत्।।

यथाहि पुरुषश्छिन्द्याद्वृक्षं परशुना वने।
छेत्तुरेव भवेत्पापं परशोर्न कथंचन।।

अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम्।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते।।

न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्।
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय।।

अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः।
न परो विद्यते तस्मादेवमप्यशुभं कुतः।।

न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते।।

यदि वा मन्यसे राजन्हतमेकं प्रतिष्ठितम्।
एवमप्यशुभं कर्म न भूतं न भविष्यति।।

अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः।
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्।।

तथापि लोके कर्माणि समावर्तन्ति भारत।
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः।।

एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम्।
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा।।

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत।
एवमात्मपरित्यागस्तव राजन्न शोभनः।।

विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्।।

तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्ताऽसि भारत।।

युधिष्ठिर उवाच।

हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा।
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः।।

क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा।
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह।।

बहवश्च मनुष्येन्द्रा नानादेशसमागताः।
घातिता राज्यलुब्धेन मयैकेन पितामह।।

तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः।
असकृत्सोमपान्वीरान्क्रिं प्राप्स्यामि तपोधन।।

दह्याम्यनिशमद्यापि चिन्तयानः पुन पुनः।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्।।

दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्।
कोटिशश्च नरानन्यान्परितप्ये पितामह।।

का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति।
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा।।

अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान्।
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले।।

अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः।
त्यक्त्वा प्राणान्स्त्रियः सर्वागमिष्यन्ति यमक्षयम्।।

वत्सलत्वाद्द्विजश्रेष्ठ तत्र ये नास्ति संसयः।
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम्।।

ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्।
नकरे निपतिष्यामो ह्यधः शिरस एव ह।।

शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम।
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकत्रिंशोऽध्यायः।। 31।।