शांतिपर्व
अध्यायः २९
युधिष्ठिर उवाच।
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्।
पर्वतेन किमथे वा दत्तस्तेन ममार च।।
यदा वर्षसहस्रायुस्तदा भवति मानवः।
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः।।
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्।।
श्रीकृष्ण उवाच।
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर।
नारदः पर्वतश्चैव द्वावृवी लोकसत्तमौ।।
मातुलो भागिनेयश्च देवलोकादिहागतौ।
विहर्तुकामौ संप्रीत्या मानुषेषु पुरा विभो।।
हविःपवित्रभोज्येन देवभोज्येन चैव हि।
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः।।
तावुभौ तपसोपेताववनीतलचारिणौ।
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम्।।
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः।।
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत्।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ।।
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः।
आवां भवति वत्स्यावः कंचित्कालं हिताय ते।।
यथावत्पृथिवीपाल आवयोः प्रगुणीभव।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह।।
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ।
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी।।
एकैव मम कन्यैषा युवां परिचरिष्यति।
दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता।
सुकुमारी कुमारी च पझकिञ्जल्कसुप्रभा।।
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम्।
कन्ये विप्रावुपचर देववत्पितृवच्च ह।।
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी।
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह।।
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च।
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत।।
ववृधे हि ततस्तस्य हृदि कामो महात्मनः।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः।।
न च तं भागिनेयाय पर्वताय महात्मने।
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित्।।
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम्।
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्।।
कृत्वा समयमव्यग्रो भवान्वै सहितो मया।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः।।
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम्।
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम्।।
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा।
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम्।।
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्।
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः।।
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे।।
सुकुमारी च ते भार्या भविष्यति न संशयः।
वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो।
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम्।।
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा।
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः।।
तपसा ब्रह्मचर्येण सत्येन च दमेन च।
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि।।
तौ तु शावा भृशं क्रुद्धौ परस्परममर्षणौ।
प्रतिजग्मतुहृन्योन्यं क्रुद्धाविव गजोत्तमौ।।
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः।
पूज्यमानो यथान्यांयं तेजसा स्वेन भारत।।
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्।
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम्।।
सा तु कन्या यथाशापं नारदं तं ददर्श ह।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम्।।
सुकुमारी च देवर्षि वानरप्रतिमाननम्।
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्।।
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात्।
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला।।
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह।
वनं विरहितं किंचित्तत्रापश्यत्स नारदम्।।
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा।
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो।।
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्।।
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि।
इत्युक्तेन मया पश्चाच्छप्तस्तवमपि मत्सरात्।।
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह।
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान्।।
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी।।
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्।
सुकुमारी प्रदुद्राव परपुंसविशङ्कया।।
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा।।
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः।
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः।।
सानुनीता बहुविधं पर्वतेन महात्मना।
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता।
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान्।।
वासुदेव उवाच।
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनत्रिंशोऽध्यायः।। 29।।