शांतिपर्व

अध्यायः २८

Santi Parva (Sanskrit) · Adhyaya 28
अक्षर का आकार

वैशंपायन उवाच।

अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः।।

अर्जुन उवाच।

ज्ञातिशोकाभिसंतप्तो धर्मपुत्रः परंतपः।
एष शोकार्णवे मग्नस्तमाश्वासय माधव।।

सर्वे स्म ते संशयिताः पुनरेव जनार्दन।
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि।।

वैशंपायन उवाच।

एवमुक्तस्तु गोविन्दो विजयेन महात्मना।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः।।

अनतिक्रमणीयो हि धर्मराजस्य केशवः।
बाल्यात्प्रभृति गोविंदः प्रीत्या चाभ्यधिकोर्जुनात्।।

संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन्।।

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्।
व्याकोचमिव विस्पष्टं पझं सूर्यविबोधितम्।।

वासुदेव उवाच।

मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम्।
न हि ते सुलभा भूयो ये हताऽस्मिन्रणाजिरे।।

स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने।
तथा ते क्षत्रिया राजन्ये व्यतीता महारणे।।

सर्वे ह्यभिमुखाः शूरा निहता रणशोभिनः।
नैषां कश्चित्पृष्ठतो वा पलायन्वा निपातितः।।

सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे।
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि।।

क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः।
प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि।
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्।।

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत्।।

नारद उवाच।

सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय।
अविमुक्ता मरिष्यामस्तत्र का परिदेवना।।

महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु।
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि।।

मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्।
शममानय संतापं शृणु विस्तरशश्च मे।
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम्।।

अग्रिमाणां क्षितिभुजामुदारं च मनोहरम्।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम।।

यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः।।

यः स्पर्धामानयच्छक्रं देवराजं पुरंदरम्।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः।।

संवर्तो याजयामास यं पीडार्थं बृहस्पतेः।।

यस्मिन्प्रशासति महीं नृपतौ राजसत्तम।
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी।।

आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः।।

मरुद्गण मरुत्तस्य यत्सोममपिबंस्ततः।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

सुहोत्रं च द्वतिथिनं मृतं सृञ्जय शुश्रुम।
यस्मे हिरण्यं ववृषे मघवा परिवत्सरम्।।

सत्यनामा वसुमती यं प्राप्यासीञ्जनाधिपम्।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे।।

मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि।
नदीष्ववासृजद्राजन्मघवा लोकपूजितः।।

हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान्।
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः।।

तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत्।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।
अदक्षिणमयज्वानं श्वैत्य संशाम्य माशुचः।।

अङ्गं बृहद्रथं चैव मृतं सृञ्जय शुश्रुम।
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजात्।।

सहस्रं च सहस्राणां कन्या हमपरिष्कृताः।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्।।

यः सहस्रं सहस्राणां गजानां पझमालिनाम्।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्।।

शतं शतसहस्राणि वृषाणां हेममालिनाम्।
गवां सहस्रानुचरं दक्षिणामत्यकालयत्।।

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः।।

यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुरा।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः।।

न जातो जनिता नान्यः पुमान्यः संप्रदास्यति।
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम।
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत्।।

महता रथघोषेण पृथिवीमनुनादयन्।
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः।।

यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह।
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे।।

न वोढारं धुरं तस्य कंचिन्मेने प्रजापतिः।
न भूतं न भविष्यं च सर्वराजसु सृञ्जय।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात्।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः।।

भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम।
शाकुन्तलं महात्मानं भूरिद्रविणतेजसम्।।

योऽबध्नात्रिशतं चाश्वान्देवेभ्यो यमुनामनु।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश।।

अश्वमेधसहस्रेण राजसूयशतेन च।
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा।।

भरतस्य महत्कर्म सवराजसु पार्थिवाः।
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन्।।

परं सहस्राद्योऽबध्नाद्धयान्वेदीर्वितत्य च।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान्।।

नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत्।
सर्वस्यासीत्पितृसमो रामो राज्यं यदन्वशात्।।

कालवर्षी च पर्जन्यः सस्यानि समपादयत्।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति।।

प्राणिनो नाप्सु मञ्जन्ति नानर्थे पावकोऽदहत्।
न व्यालतो भयं चासीद्रामे राज्यं प्रशासति।।

आसन्वर्षसहस्रिण्यस्तथा वर्षसहस्रकाः।
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति।।

नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम्।
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति।।

संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः।
नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति।।

नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति।।

स चतुर्दश वर्षाणि वने प्रोष्य महातपाः।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान्।।

युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः।।

दशवर्षसहस्राणि दशवर्षशतानि च।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत्।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः।।

भगीरथं च राजानं मृतं सृञ्जय शुश्रुम्।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः।।

असुराणां सहस्राणि बहूनि सुरसत्तमः।
अजयद्वाहुवीर्येण भगवान्पाकशासनः।।

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्।।

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः।
शतंशतं रथे नागाः पझिनो हेममालिनः।।

सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम्।।

उपह्वरे निवसतो यस्याङ्के निषसाद ह।
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा।।

भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम्।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

दिलीपं च महात्मानं मृतं सृञ्जय शुश्रुम।
प्रस्य कर्माणि भूरीणि कथयन्ति द्विजातयः।।

य इमां वसुसंपूर्णां वसुधां वसुधाधिपः।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः।।

यस्येह यजमानस्य यज्ञेयज्ञे पुरोहितः।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत्।।

यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः।
ते देवां कर्म कुर्वाणाः शक्रज्येष्ठा उपासत।।

चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये।
ननृतुर्देवगन्धर्वाः षट्‌सहस्राणि सप्तधा।।

अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम्।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम्।।

एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे।
यस्येभा हेमसंछन्नाः पथि मत्ताः स्म शेरते।।

राजानं शतधन्वानं दिलीपं सत्यवादिनम्।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः।।

त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने।
स्वाध्यायशब्दः ज्याशब्दः शब्दो वै दीयतामिति।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन्।।

समृद्धो युवनाश्वस्य जठरे यो महात्मनः।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः।।

यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम्।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै।।

मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत।
मांधातेति ततस्तस्य नाम चक्रे शतक्रतुः।।

ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्।।

तं पिवन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः।।

तमिमं पृथिवी सर्वा एकाह्ना समपद्यत।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि।।

यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम्।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत्।।

यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे।।

यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते।।

अश्वमेधशतेनेष्ट्वा राजसूयशतेन च।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशांपते।।

हैरण्यान्यो जनोत्सेधानायतान्दशयोजनम्।
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम।
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम्।।

शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम्।
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम्।।

इष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च।
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः।।

व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान्।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः।।

अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान्।
पुरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम्।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम्।।

यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम्।
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत।।

नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे।
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः।।

शतं राजसहस्राणि शतं राजशतानि च।
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम्।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः।।

सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः।।

शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः।
कन्यांकन्यां शतं नागा नागंनागं शतं रथाः।।

रथेरथे शतं चाश्वा देशजा हेममालिनः।
अश्वेअश्वे शतं गावो गांगां तद्वदजाविकम्।।

एतद्धनमपर्यन्तमश्वमेधे महामखे।
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमन्यत।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

गयं चाधूर्तरजसं मृतं शुश्रुम सृञ्जय।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत्।।

यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः।
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम्।।

मनो मे रभतां सत्ये त्वत्प्रसादाद्धुताशन।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम्।।

दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः।
अयजद्धयमेधेन सहस्रं परिवत्सरान्।।

शतं गवां सहस्राणि शतमश्वशतानि च।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान्।।

तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ।।

सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम्।
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ।।

यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ।
तावतीरेव गाः प्रादादाधूर्तरजसो गयः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

रन्तिदेवं च सांकृत्यं मृतं सृञ्जय शुश्रुम।
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः।।

अन्नं च नो बहु भवेदतिथींश्च लभेमहि।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन।।

उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम्।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम्।।

महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी।।

ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः।
तुभ्यंतुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः।।

सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्संप्रपद्य ते।।

अन्वाहार्योपकरणं द्रव्योपकरणं च यत्।
घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च।
नासीत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः।।

सांकृते रन्तिदेवस्य यां रात्रिमवसन्गृहे।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः।।

तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः।
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

सगरं च महात्मानं मृतं शुश्रुम सृञ्जय।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम्।।

षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव।।

एकच्छत्रा मही यस्य प्रतापादभवत्पुरा।
योऽश्वमेधसहस्रेण तर्पयामास देवताः।।

यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम्।
पूर्णं पझदलाक्षीणां स्त्रीणां शयनसंकुलम्।।

द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून्।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः।।

खानयामास यः कोपात्पृथिवीं सागराङ्किताम्।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय।
यमभ्यषिञ्चन्संभूयः महारण्ये महर्षयः।।

प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः।
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः।।

पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्मेति यदब्रुवन्।
ततो राजेति नामास्य अनुरागादजायत।।

अकृष्टपच्या पृथिवी पुटकेपुटके मधु।
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः।।

अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः।
यथाऽभिकाममवसन्क्षेत्रेषु च गृहेषु च।।

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः।
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत्।।

हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम्।
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।।

किं वा तूष्णीं ध्यायसे सृञ्जय त्वं
न मे राजन्वाचिममां शृणोपि।
न चेन्मोघं विप्रलप्तं ममेदं
पथ्यं मुमूर्षोरिव सुप्रयुक्तम्।।

सृञ्जय उवाच।

शृणोमि ते नारद वाचमेनां
विचित्रार्थां स्रजमिव पुण्यगन्धाम्।
राजर्षीणां पुण्यकृतां महात्मनां
कीर्त्या युक्तानां शोकनिर्नाशनार्थाम्।।

न ते मोघं विप्रलप्तं महर्षे
दृष्ट्वैवाहं नारद त्वां विशोकः।
शुश्रूषे ते वचनं ब्रह्मवादि
न्न ते तृप्याम्यमृतस्येव पानात्।।

अमोघदर्शिन्मम चेत्प्रसादं
संतापदग्धस्य विभो प्रकुर्याः।
सुतस्य संजीवनमद्य मे स्या
त्तव प्रसादात्सुतसङ्गमाप्नुयाम्।।

नारद उवाच।

यस्ते पुत्रः शयितोयं विजातः
स्वर्णष्ठीवी यमदात्पर्वतस्ते।

पुनस्तं ते पुत्रमहं ददामि
हिरण्यनाभं वर्षसबस्रिणं च।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टाविंशोऽध्यायः।। 28।।