शांतिपर्व
अध्यायः २८६
उशनोवाच।
नमस्तस्मै भगवते देवाय प्रभविष्णवे।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरः।।
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्।।
भीष्म उवाच।
तयोः संवदतोरेवमाजगाम महामुनिः।
सनत्कुमारो धमार्त्मा संशयच्छेदनाय वै।।
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा।
निषसादासने राजन्महार्हे मुनिपुङ्गवः।।
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत्।
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम्।।
सनत्कुमारस्तु वचः श्रुत्वा प्राह वचोऽर्थवत्।
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते।।
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप।।
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत।
अवत्येष महाबाहुर्भूतग्रामं चराचरम्।
एष चाक्षिपते काले काले च सृजते पुनः।।
नैष दानव ते शक्यस्तपसा नैव चेज्यया।
संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते।।
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः।
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते।।
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्।
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह।।
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्मणा।
यत्नेन महता चैयवाप्येकजातौ विशुद्ध्यते।।
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः।
बहुयत्नेन महता दोषनिर्हरणं तथा।।
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्।
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम्।।
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः।
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते।।
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह।।
कर्मणा स्वेन रक्तानि विरक्तानि च दानव।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु।।
यथावत्संप्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम्।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु।।
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः।
देवः सृजति भूतानि स्थावराणि चराणि च।।
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च।
एकादश विकारात्मा जगत्पिबति रश्मिभिः।।
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च।।
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते।।
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम।
नक्षत्रचक्रं नेत्रं च आस्यमग्निं च दानव।
तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम्।।
रजस्तमश्च सत्वं च विद्धि नारायणात्मकम्।
सोश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः।।
अकर्मणः फलं चैव स एव परमोऽव्ययः।
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती।।
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः।
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः।।
श्रोत्रशास्त्रग्रहोपेतः षोड्शर्त्विक्क्रतुश्च सः।
पितामहश्च रुद्रश्च सोऽश्विनौ स पुरंदरः।।
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे।।
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्त्यपि।
जन्तुः पश्यति विज्ञानात्ततः सत्वं प्रकाशते।।
संहारविक्षेपसहस्रकोटी
स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये।
प्रजाविसर्गस्य च पारिमाण्यं
वापीसहस्राणि बहूनि दैत्य।।
वाप्यः पुनर्योजनविस्तृतास्ताः
क्रोशं च गम्भीरतयाऽवगाढाः।
आयामतः पञ्चशताश्च सर्वाः
प्रत्येकशो योजनतः प्रवृद्धाः।।
वाप्या जलं क्षिप्यति वालकोट्या
त्वह्ना सकृच्चाप्यथ न द्वितीयम्।
तासां क्षये विद्धि परं विसर्गं
संहारमेकं च तथा प्रजानाम्।।
षड्जीववर्णाः परमं प्रमाणं
कृष्णो धूम्रो नीलमथास्य मध्यम्।
रक्तं पुनः सह्यतरं सुखं तु
हारिद्रवर्णं सुसुखं च शुक्लम्।।
परं तु शुक्लं विमलं विशोकं
गतक्लमं सिद्ध्यति दानवेन्द्र।
गत्वा तु योनिप्रभवाणि दैत्य
सहस्रशः सिद्धिमुपैति जीवः।।
गतिं च यां दर्शनमाह देवो
गत्वा शुभं दर्शनमेव चापि।
गतिः पुनर्वर्णकृता प्रजानां
वर्णस्तथा कालकृतोऽसुरेन्द्र।।
शतं सहस्राणि चतुर्दशेह
परा गतिर्जीवगणस्य दैत्य।
आरोहणं तत्कृतमेव विद्धि
स्थानं तथा निःसरणं च तेषाम्।।
`योऽस्मादथ भ्रश्यति कालयोगा
त्कृष्णे वर्णे तिष्ठति सर्वकृष्टे।
अतिप्रसक्तो निरयाच्च दैत्य
ततस्ततः संपरिवर्तते च।।'
कृष्णस्य वर्णस्य गतिर्निकुष्टा
स मज्जते नरके पच्यमानः।
स्थानं तथा दुर्गतिभिस्तु तस्य
प्रजाविसर्गान्सुबहून्वदन्ति।।
शतं सहस्राणि ततश्चरित्वा
प्राप्नोति वर्णं हरितं तु पश्चात्।
स चैव तस्मिन्निवसत्यनिशो
युगक्षयं तमसा संवृतात्मा।।
स वै यदा सत्वगुणेन युक्त
स्तमो व्यपोहन्घटते स्वबुद्ध्या।
स लोहितं वर्णमुपैति नीला
न्मनुष्यलोके परिवर्तते च।।
स तत्र संहारविसर्गमेकं
स्वकर्मजैर्बन्धनैः क्लिश्यमानः।
ततः स हारिद्रमुपैति वर्णं
संहारविक्षेपशते व्यतीते।।
हारिद्रवर्णस्तु प्रजाविसर्गा
त्सहस्रशस्तिष्ठति संचरन्वै।
अविप्रमुक्तो निरये च दैत्य
ततः सहस्राणि दशापराणि।।
गतीः सहस्राणि च पञ्च तस्य
चत्वारि संवर्तकृतानि चैव।
विमुक्तमेनं निरयाच्च विद्धि
सर्वेषु चान्येषु च संभवेषु।।
स देवलोके विहरत्यभीक्ष्णं
ततश्च्युतो मानुषतामुपैति
संहारविक्षेपशतानि चाष्टौ
मर्त्येषु तिष्ठन्नमृतत्वमेवि।।
सोऽस्मादय भ्रश्यति कालयोगा
त्कृष्णे तले तिष्ठति सर्वकृष्टे।
यथा त्वयं सिध्यति जीवलोक
स्तत्तेऽभिधास्याम्यसुरप्रवीर।।
दैवानि स व्यूहशतानि सप्त
रक्तो हरिद्रोऽथ तथैव शुक्लः।
संश्रित्य संधावति शुक्लमेत
मष्टावरानर्च्यतमान्स लोकान्।
अष्टौ च षष्टिं च शतानि चैव
मनोविरुद्धानि महाद्युतीनाम्।
शुक्लस्य वर्णस्य परा गतिर्या
त्रीण्येव रुद्धानि महानुभाव।।
संहाराविक्षेपमनिष्टमेकं
चत्वारि चान्यानि वसत्यनीशः।
षष्ठस्य वर्णस्य परा गतिर्या
सिद्धावसिद्धस्य गतक्लमस्यर।।
ततो महान्मानुषतामुपैति।।
तस्मादुपावृत्य ततः क्रमेण
सोग्रेण संतिष्ठति भूतसर्गम्।
स सप्तकृत्वश्च परैति लोका
न्संहारविक्षेपकृतप्रवासः।।
देवस्य विष्णोः परमस्य चैव।।
संहारकाले परदिग्धकाया
ब्रह्माणमायान्ति सदा प्रजाहि।
चेष्टात्मनो देवगणाश्च सर्वे
ये ब्रह्मलोके ह्यमराः स्म तेऽपि।।
प्रजानिसर्गे तु स शेषकाले
स्थानानि स्वान्येव सरन्ति जीवाः।
निःशेषतस्तत्पदं वान्ति चान्ते
सर्वे देवा ये सदृशा मनुष्याः।।
ये तु च्युताः सिद्धलोकात्क्रमेण
तेषां गतिं यान्ति यथाऽऽनुपूर्व्या।
जीवाः परे तद्बलवेषरूपाः
स्वकं विधिं यान्ति विषर्ययेण।।
स यावदेवास्ति सशेषभुक्तिः
प्रजाश्च देव्यौ च तथैव शुक्ले।
तावत्तदङ्गेषु विशुद्धभावः
संयम्य पञ्चेन्द्रियरूपमेतत्।।
नारायणस्येह बलं मया ते।।
वृत्र उवाच।
एवं गते मे न विषादोस्ति कश्चि
त्सम्यक्च पश्यामि वचस्तथैतत्।
श्रुत्वा तु ते वाचमदीनसत्व
विकल्मषोस्म्यद्य तथा विपाष्मा।।
तस्मिज्जगत्सर्वमिदं प्रतिष्ठितम्।।
भीष्म उवाच।
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्।
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान्।।
युधिष्ठिर उवाच।
अयं स भगवान्देवः पितामह जनार्दनः।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा।।
भीष्म उवाच।
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा।
तत्स्थः सृजति तान्भावानात्मरूपान्महामनाः।।
तुरीयांशेन तस्येमं विद्धि केशवमच्युतम्।
`तुरीयांशेन ब्रह्माणं तस्य विद्धि महात्मनः।'
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान्।।
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः।
तान्विघाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्।।
सर्वाण्यशून्यानि करोत्यनन्तः
सनातनः संचरते च लोकान्।
स चानिरुद्धः सृजते महात्मा
तत्स्थं जगत्सर्वमिदं विचित्रम्।।
युधिष्ठिर उवाच।
वृत्रेण परमार्थज्ञ दृष्टा मन्येत्मनो गतिः।
सुखात्तस्मात्स सुखितो न शोचति पितामह।।
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह।।
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः।।
वयं तु भृशमापन्ना रक्ताः कष्टाः सुखेऽसुखे।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ।।
भीष्म उवाच।
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः।
विहत्य देवलोकेषु पुनर्मानुषमेध्यथ।।
प्रजाविसर्गं च सुखेन लोके
प्रेत्यान्येदेहेषु सुखानि भुक्त्वा।
सुखेन संयास्यथ सिद्धसङ्ख्यां
मा वो भयं भवतु न वोऽस्तु पापम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
ष॰शीत्यधिकद्विशततमोऽध्यायः।। 286।।