शांतिपर्व
अध्यायः २८५
युधिष्ठिर उवाच।
धन्याधन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह।।
लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह।।
कदा वयं करिष्यामः संन्यासं दुःखभेषजम्।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम।।
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः।
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह।।
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः।
कदा वयं गमिष्यामो राज्यं हित्वा परंतप।।
भीष्म उवाच।
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम्।
पुनर्भावोपि संख्यातो नास्ति किंचिदिहाचलम्।।
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः।
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ।।
नेशेऽयं सततं देही नृपते पुण्यपापयोः।
तत एव समुत्थेन तमसा रुध्यतेऽपि च।।
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः।।
तथा कर्मफलैर्देही रञ्जितस्तमसा वृतः।
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते।।
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्।।
अयत्नसाध्यं मुनयो वदन्ति
चे चापि मुक्तास्तदुपासितव्याः।
त्वया च लोकेन च सामरेण
तस्मान्न शाम्यन्ति महर्षिसङ्घाः।।
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्।।
निर्जितेनासहायेन हृतराज्येन भारत।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्।।
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव।।
वृत्र उवाच।
सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम्।
न शोचामि न हृष्यामि भूतानामागतिं गतिम्।।
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः।
परिहृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः।।
क्षपयित्वा तु तं कालं गणितं कालचोदिताः।
सावशेषेण कालेन संधावन्ति पुनःपुनः।।
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च।
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः।।
एवं संसरमाणानि ह्यहं भूतानि दृष्टवान्।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्।।
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव च।।
कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा।।
कालसङ्ख्यानसङ्ख्येयं सृष्टिस्थितिपरायणम्।
तं भाषमाणं भगवानुशना प्रत्यभाषत।
इमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषते।।
वृत्र उवाच।
प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम्।
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः।।
गन्धानादाय भूतानां रसांश्च विविधानपि।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा।।
ज्वालामालापरिक्षिप्तो वैहायसगतिस्तथा।
अजेयः सर्वभूतानामासं नित्यमपेतभीः।।
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्।।
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः।।
वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः।।
नूनं तु तस्य तपसः सावशेषं ममास्ति वै।
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्।।
ऐश्वर्यं वै महद्ब्रह्मन्वर्णे कस्मिन्प्रतिष्ठितम्।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्।।
भवन्ति कस्माद्भूतानि प्रवर्तन्ते यथा पुनः।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः।।
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि।।
इतीदमुक्तः स मुनिस्तदानीं
प्रत्याह यत्तच्छृणु राजसिंह।
मयोच्यमानं पुरुषर्षभ त्व
मनन्यचित्तः सह सोदरीयैः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चाशीत्यधिकद्विशततमोऽध्यायः।। 285।।