शांतिपर्व
अध्यायः २८७
युधिष्ठिर उवाच।
अहो धर्मिष्ठता तस्य वृत्रस्यामिततेजसः।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी।।
दुर्विज्ञेयमिदं तस्य विष्णोरमिततेजसः।
कथं वा राजशार्दूल पदं तु ज्ञातवानसौ।।
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत।
भूयश्च मे समुत्पन्ना बुद्धिरव्यक्तदर्शना।।
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ।
धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च तदन्वये।।
एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ।
वृत्रः स राजशार्दूल यथा शक्रेण निर्जितः।।
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह।
विस्तरेण महाबाहो परं कौतूहलं हि मे।।
भीष्म उवाच।
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा।
ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम्।।
योजनानां शतान्यूर्ध्वं पञ्चोन्छ्रितमरिंदम्।
शतानि विस्तरेणाथ त्रीणि चाभ्यधिकानि वै।।
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्।
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे।।
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत।
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्।।
ततो नादः समभवद्वादित्राणां च निःस्वनः।
देवासुराणां सर्वेषां तस्मिन्युद्धे ह्युपस्थिते।।
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम्।
न संभ्रमो न भीः काचिदास्था वा समजायत।।
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम्।
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः।।
असिभिः पट्टसैः शूलैः शक्तितोमरम्रुद्गरैः।
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः।।
अस्त्रैश्च विविर्धौर्दिव्यैः पावकोल्काभिरेव च।
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्।।
पितामहपुरोगाश्च सर्वे देवगणास्तदा।
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्।।
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ।
गन्धर्वाश्च विमानाग्रैरप्सरोभिः समागमन्।।
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभूतां वरः।
अश्मवर्षेण देवेन्द्रं सर्वतः समवाकिरत्।।
ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः।
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे।।
वृत्रस्तु कुरुशार्दूल महामायो महाबलः।
मोहयामास देवेन्द्रं मायायुद्धेन सर्वशः।।
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः।
रथन्तरेण तं तत्र वसिष्ठः समबोधयत्।।
वसिष्ठ उवाच।
देवश्रेष्ठोऽस्ति देवेन्द्र दैत्यासुरनिबर्हण।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि।।
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः।
सोमश्च भगवान्देवः सर्वे च परमर्षयः।।
`समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्यूचुर्जयाय ते।'
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा।
आर्यां युद्धे मतिं कृत्वा जहि शत्रून्सुराधिप।।
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः।
निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप।।
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः।
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै।।
भीष्म उवाच।
एवं संबोध्यमानस्य वसिष्ठेन महात्मना।
अतीव वासवस्यासीद्बलमुत्तमतेजसः।।
ततो बुद्धिमुपागम्य भगवान्पाकशासनः।
योगेन महता युक्तस्तां मायां व्यपकर्षत।।
ततोऽङ्गिरः सुतः श्रीमांस्ते चैव सुमहर्षयः।
दृष्ट्वा वृत्रस्य विक्रान्तुमुपागम्य महेश्वरम्।।
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया।
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः।।
समाविशत्तदा रौद्रं वृत्रं लोकपतिं तदा।
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः।।
ऐन्द्रं समाविशुद्वज्रं लोकसंरक्षणे रतः।
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्।
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः।।
ते समासाद्य वरदं वासवं लोकपूजितम्।
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो।।
महेश्वर उवाच।
एष वृत्रो महाञ्शक्रे बलेन महता वृतः।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः।।
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्।
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर।।
अनेन हि तपस्तप्तं बलार्थममराधिप।
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ।।
महत्त्वं योगिनां चैव महामायत्वमेव च।
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर।।
एतत्त्वां मामकं तेजः समाविशति वासव।
वृत्रमेवं त्ववध्यं तं वज्रेण जहि दानवम्।।
शक्र उवाच।
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम्।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ।।
भीष्म उवाच।
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे।
देवतानामृषीणां च हर्षान्नादो महानभूत्।।
ततो दुन्दुभयश्चैव शङ्ख्याश्च सुमहास्वनाः।
मुरजा डिण्डिभाश्चैव प्रावाद्यन्त सहस्रशः।।
असुराणां तु सर्वेषां स्मृतिलोपो महानभूत्।
मायानाशश्च बलवान्क्षणेन समपद्यत।।
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा।
स्तुवन्तः शक्नमीशानं तथा प्राचोदयन्नपि।।
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः।
ऋषिभिः स्तूयमानस्य रूपमासीन्सुदुर्दृशम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्ताशीत्यधिकद्विशततमोऽध्यायः।। 287।।