शांतिपर्व
अध्यायः २८४
युधिष्ठिर उवाच।
किंशीलः किंसमाचारः किंविद्यः किंपरायणः।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्।।
भीष्म उवाच।
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्।।
`अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर।।
स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्।।
न चक्षुषा न मनसा न वाचा दूषयेत्परम्।
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्।।
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत्।
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्।।
अतिवादांस्तितिक्षेत नाभिमन्येत कंचन।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्।।
प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत्।
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम्।।
अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत्।
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः।।
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः।।
प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्।।
लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः।
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः।।
न चान्नदोषान्निन्देत न गुणानभिपूजयेत्।
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्।।
शून्यागारं वृक्षमूलमरण्यमथवा गुहाम्।
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत्।।
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि।।
नित्यतृप्तः सुसंतृष्टः प्रसन्नवदनेन्द्रियः।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः।।
अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम्।
विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन्।
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः।।
वाचो वेगं मनसः क्रोधवेगं
हिंसावेगमुदरोपस्थवेगम्।
एतान्वेगान्विनयेद्वै तपस्वी
निन्दा चास्य हृदयं नोपहन्यात्।।
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः।
एतत्पवित्रं परमं परिव्राजक आश्रयेत्।।
महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः।
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः।।
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्।
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्।।
विजानतां मोक्ष एष श्रमः स्यादविजानताम्।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्।।
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्।
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुरशीत्यधिकद्विशततमोऽध्यायः।। 284।।