शांतिपर्व

अध्यायः २८३

Santi Parva (Sanskrit) · Adhyaya 283
अक्षर का आकार

* युधिष्ठिर उवाच।

अतिक्रामति कालेऽस्मिन्सर्वभूतभयावहे।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर।।

द्विजातेः कस्यजित्पार्थ स्वाध्यायनिरतस्य वै।
पुत्रो बभूव मेधावी मेधावी नाम नामतः।।

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्।
मोक्षधर्मेष्वकुशलं मोक्षधर्मविचक्षणः।।

पुत्र उवाच।

धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तथाऽऽख्याहि यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम्।।

पितोवाच।

अधीत्य वेदान्ब्रह्मचर्येषु पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत्।।

पुत्र उवाच।

एवमभ्याहते लोके सर्वतः परिवारिते।
अमोधासु पतन्तीषु किं धीर इव भाषसे।।

पितोवाच।

कथमभ्याहतो लोकः केन वा परिवारितः।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम्।।

पुत्र उवाच।

मृत्युनाऽऽभ्याहतो लोको जस्या परिवारितः।
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे।।

यदाहमेव जानामि न मृत्युस्तिष्ठतीति ह।
सोहं कथं प्रतीक्षिप्ये ज्ञानेनापिहितश्चरन्।।

रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा।
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा।।

`यामेकरात्रिं प्रथमां गर्भो विशति मातरम्।
तामेव रात्रिं प्रस्वाप्य मरणाय विवर्तकः।।'

पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्।
अनवाप्तेषु कामेषु मृत्युरभ्येति गानवम्।।

श्वः कार्यमद्य कुर्वीत पूर्वाङ्गे चापराहिकम्।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम्।।

अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगान्महान्।
को हि जानाति कस्याद्य मृत्युकालो मविष्यति।।

अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति।
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्।।

कृते धर्म भवेत्प्रीतिरिह प्रेत्य च शाश्वती।
मोहेन हि समाविष्टः पुत्रदारार्तमुद्यतः।।

कृत्वा कार्यमकार्यं वा तुष्टिमेषां प्रयच्छति।
तं पुत्रपशुसंपन्नं व्याभक्तमनसं नरम्।।

सप्तं व्यायं महौघो वा मृत्युरादाय गच्छति।
संविन्वानकमेवैनं कामानामवितृप्तकम्।।

वृकीवोरपमासाद्य मुत्युरादाय गच्छति।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्।।

एवमीहासमायुक्तं मृत्युरादाय गच्छति।
कृतानां फलमप्राप्तं कार्याणां कर्मसङ्गिनाम्।।

क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति।
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम्।।

अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति।
मृत्युर्जरा च व्याधिश्चदुःखं चानेककारणम्।।

असंत्याज्यं यदा मर्त्यैः किं स्वस्थ इव तिष्ठति।
जातमेवान्तकोऽन्ताय जरा चाभ्येति देहिनम्।।

अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः।
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते।।

बलात्सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम्।
मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः।।

देवानामेषु वै गोष्ठो यदरण्यमिति श्रुतिः।
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः।।

छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः।
यो न हिंसति सत्वानि मनोवाक्कर्महेतुभिः।।

जीवितार्थापनयनैः प्राणिभिर्न स बध्यते।
तस्मात्सत्यव्रताचारः सत्यव्रतपरायणः।।

सत्यकामः समो दान्ताः सत्येनैवान्तकं जयेत्।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्।।

मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्।
सोहं सत्यमहिंसाथीं कामक्रोधबहिष्कृतः।।

समाश्रित्य सुखं क्षेमी मृत्युं हास्याम्यमृत्युवत्।
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः।।

वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने।
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति।।

अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्।
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजः पितः।।

आत्मयज्ञो भविष्यामि न मां तारयति प्रजा।
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा।।

तपस्त्यागश्च योगश्च स तैः सर्वमवाप्नुयात्।
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम्।।

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्।।

नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च।
शीले स्थितिर्दण्डविधानमार्जवं
ततस्ततश्चोपरमः क्रियाभ्यः।।

किं ते धनैर्बान्धवैर्वाऽपि किं ते
किं ते दारैब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गृहा प्रविष्टं
पितामहास्ते क्व गताः पिता च।।

भीष्म उवाच।

पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप।
तथा त्वमपि राजेन्द्र सत्यधर्मपरो भव।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्र्यशीत्यधिकद्विशततमोऽध्यायः।। 283।।