शांतिपर्व
अध्यायः २८०
युधिष्ठिर उवाच।
मोक्षः पितामहेनोक्त उपायान्नानुपायतः।
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत।।
भीष्म उवाच।
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्।
यदुपायेन सर्वार्थं नित्यं मृगयसेऽनघ।।
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता।
एवं धर्माभ्यपायेषु नान्यद्धर्मेषु कारणम्।।
पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम्।
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु।।
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात्।
सत्वसंसेवानद्धीरो निद्रामुच्छेत्तुमर्हति।।
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्।।
भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत्।
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्।।
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात्।
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्।।
अनुक्रोशादधर्मं च जयेद्धर्ममवेक्षया।
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्।।
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः।।
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्।
मौनेन बहुभाषां च शौर्येण च भयं जयेत्।।
यच्छेद्वाङ्भनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा।
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः।।
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा।
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः।।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्।
परित्यज्य निषेवेत तथेमान्योगसाधनान्।।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः।।
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च।
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते।।
धूतपापः स तेजस्वी लध्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्।।
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्।
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः।।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अशीत्यधिकद्विशततमोऽध्यायः।। 280।।