शांतिपर्व

अध्यायः २७९

Santi Parva (Sanskrit) · Adhyaya 279
अक्षर का आकार

युधिष्ठिर उवाच।

कथं भवति पापात्मा कथं धर्मं करोति वा।
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति।।

भीष्म उवाच।

विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि।
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः।।

विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते।
प्राप्यतां वर्तते कामो द्वेषो वा भरतर्षभ।।

ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति।।

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम्।।

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च।।

व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन।।

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणोऽपि पण्‍डितैश्चापि भारत।।

उत्तरं न्यायसंबद्धं ब्रवीति विधिचोदितम्।
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः।।

पापं चिन्तयते कर्म प्रब्रवीति करोति च।
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः।।

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः।
स नेह सुखमाप्नोति कुत एव परत्र वै।।

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु।
यथा कुशलधर्मा स कुशलं प्रतिपद्यते।।

कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते।
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति।।

कुशलस्तु सुखार्थाय साधूंश्चाप्युपसेवते।
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते।।

प्राज्ञो धर्मे च रमते धर्मं चैवोपजीवति।
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन।।

तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै।
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्।।

स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति।
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत।।

प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः।
स तु धर्मफलं लब्ध्वा न तृष्यति युधिष्ठिर।।

धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च।
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा।
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति।।

शब्दे स्पर्शे तथा रूपे न च भावयते मनः।
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति।।

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्।
ततो मोक्षाय यतते नानुपायादुपायतः।।

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च।
धर्मात्मा चैव भवति मोक्षं च लभते परम्।।

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि।
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत।।

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर।
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनाशीत्यधिकद्विशततमोऽध्यायः।। 279।।