शांतिपर्व

अध्यायः २८१

Santi Parva (Sanskrit) · Adhyaya 281
अक्षर का आकार

भीष्म उवाच।

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादं देवलस्यासितस्य च।।

आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम्।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्।।

नारद उवाच।

कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम्।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे।।

असित उवाच।

येभ्यः सृजति भूतानि कालो भावप्रचोदितः।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः।।

तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम्।।

विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान्।
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः।।

आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ।
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम्।।

नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम्।
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः।।

पञ्चैव तानि कालश्च भावाभावौ च केवलौ।
अष्टौ भूतानि भूतानां शाश्वतानि भवाव्ययौ।।

अभावभावितेष्वेव तेभ्यश्च प्रभवन्त्यपि।
विनष्टोऽप्यनुतान्येव जन्तुर्भवति पञ्चधा।।

तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम्।
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम्।।

चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च प?ञ्चमी।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः।।

दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु धातुषु।।

रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः।।

रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान्।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते।।

चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः।।

पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्।
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति।
इन्द्रियैरुपसृष्टार्थान्मत्वा यस्त्वध्यवस्यति।।

चित्तमिन्द्रियसंघातं मनो बुद्धिस्तथाऽष्टमी।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः।।

पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम्।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि।।

जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ।।

पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी।
विसर्गे च पुरीषस्य विसर्गे चापि कामिके।।

मनः षष्ठान्यथैतानि वाचा सम्यग्यथागमम्।
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया।।

इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा।
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः।।

इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि।
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम्।।

सात्विकाश्चैव ये भावास्तथा राजसतामसाः।
कर्मयुक्ताः प्रशंसन्ति सात्विकान्नेतरांस्तथा।।

आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः।
सात्विकस्य निमित्तानि भावान्संश्रयसे स्मृतिः।।

जन्तुष्वेकतमेष्वेवं भावं यो वा समास्थितः।
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः।।

इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः।
तेषामष्टादशो देही यः शरीरे स शाश्वतः।।

अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम्।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते।।

अथवा संविभागेन शरीरं पाञ्चभौतिकम्।
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम्।
ऊष्मणा सह विशो वा संघातः पाञ्चभौतिकः।।

महान्संधारयत्येतच्छरीरं वायुना सह।
सत्यप्रभावयुक्तस्य निमित्तं देहभेदने।।

तथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा।
पुण्यपापविनाशान्ते पुण्यपापसमीरितः।
देहं विशति कालेन ततोऽयं कर्मसंभवम्।।

हित्वाहित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः।
कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम्।।

तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः।
कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः।।

न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते।
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखकृत्।।

नैव संजायते जन्तुर्न च जातु विपद्यते।
याति देहमयं मुक्त्वा कदाचित्परमां गतिम्।।

पुण्यपापमयं देहं क्षपयन्कर्मसंक्षयात्।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति।।

पुण्यपापक्षयार्थं हि साङ्ख्यज्ञानं विधीयते।
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः।। 281।।