शांतिपर्व
अध्यायः २७
वैशंपायन उवाच।
ज्ञातिशोकाभितप्तस्य प्राणानिष्टांस्त्यजिष्यतः।
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत्।।
व्यास उवाच।
अत्राप्युदाहरन्तीमभितिहासं पुरातनम्।
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर।।
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः।
संशयं परिपप्रच्छ दुःखशोकसमन्वितः।।
जनक उवाच।
आगमे यदि वाऽपाये ज्ञातीनां द्रविणस्य च।
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता।।
अश्मोवाच।
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः।
तानितान्यनुवर्तन्ते दुःखानि च सुखानि च।।
तेषामन्यतरापत्तौ यद्यदेवोपसेवते।
तदस्य चेतनामाशु हरत्यभ्रमिवानिलः।।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः।
इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते।।
संप्रसक्तमना भोगान्विसृज्य पितृसंचितान्।
परिक्षीणः परस्वानामादानं साधु मन्यते।।
तमतिक्रान्तमर्यादमाददानमसांप्रतम्।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः।।
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः।
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव।।
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्।
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः।।
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः।
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते।।
एवमेतानि दुःखानि तानि तानीह मानवम्।
विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि।।
जरामृत्यू हि भूतानां खादितारौ वृकाविव।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि।।
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः।
अपि सागरपर्यन्तां विजित्येमां वसुंधराम्।।
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते।।
पूर्वे वयसि मध्ये वाऽप्युत्तरे वा नराधिप।
अवर्जनीयास्तेऽर्था वै काङ्क्षिता ये ततोऽन्यथा।।
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते।।
प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च।
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम्।।
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः।
तथैव सुखदुःखानि विधानमनुवर्तते।।
आसनं शयनं यानमुत्थानं पानभोजनम्।
नियतं सर्वभूतानां कालेनैव भवत्युत।।
वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः।
स्त्रीमन्तश्चापरे षण्ढा विचित्रः कालपर्ययः।।
कुले जन्म तथा वीर्यमारोग्यं रूपमेव च।
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते।।
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्।
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम्।।
व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम।
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा।।
निर्याणे यस्य यद्दिष्टं तेन गच्छति सेतुना।
दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः।
दृश्यते चाप्यतिक्रामन्न निग्राह्योऽथवा पुनः।।
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः।
दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः।।
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत्।।
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
दरिद्राणां तु भूयिष्ठं काष्ठमश्मा हि जीर्यते।।
अहमेतत्करोमीति मन्यते कालनोदितः।
यद्यदिष्टमसंतोषाहुरात्मा पापमाचरेत्।।
मृगयाक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः।
दृश्यन्ते पुरुषाश्चात्र संप्रयुक्ता बहुश्रुताः।।
इति कालेन सर्वार्थानीप्सितानीप्सितानिह।
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते।।
वायुमाकाशमग्निं च चन्द्रादित्यावहः क्षपे।
ज्योतींषि सरितः शैलान्कः करोति बिभतिं च।।
शीतमुष्णं तथा वर्षं कालेन परिवर्तते।
एवमेव मनुष्याणां सुखदुःखे नरर्षभ।।
नौषधानि न शस्त्राणि न होमा न पुनर्जपाः।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम्।।
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः।।
ये च निष्परुषैरुक्तगीतवाद्यैरुपस्थिताः।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः।।
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्।।
नैवास्य कश्चिद्भविता नायं भवति कस्यचित्।
पथि संगतमेवेदं दारबन्धुसुहृज्जनैः।।
क्वासे क्व च गमिष्यामि कोऽन्वहं किमिहास्थितः।
कस्मात्किमनुशोचेयमित्येवं स्थापयेन्मनः।।
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ।
पथि संगतमेवैतद्धाता माता पिता सखा।।
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता।।
कुर्वीत पितृदैवत्यं धर्म्याणि च समाचरेत्।
यजेच्च विद्वान्विधिवत्रिवर्गं चाप्युपाचरेत्।।
सन्निमज्जेज्जगदिदं गम्भीरे कालसागरे।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते।।
आयुर्वेदमधीयानाः केवलं सपरिग्रहाः।
दृश्यन्ते बहवो वैद्या व्याधिभिः समबिप्लुताः।।
ते पिबन्तः कषायांश्च सर्पीषि विविधानि च।
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः।।
रसायनविदश्चैव सुप्रयुक्तरसायनाः।
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः।।
तथैव तपसोपेताः स्वाध्यायाध्ययने रताः।
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ।।
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः।
जातानां सर्वभूतानां न पुनर्वै समागमः।।
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः।
स्रोतसैव समभ्येति सर्वभूतनिषेवितम्।।
देहो वा जीविताद्व्येति देही वाऽप्येति देहतः।
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः।।
नायमत्यन्तसंवासो लभ्यते जातु केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्।।
क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहाः।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ।।
न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च।
आगमस्तु सतां चक्षुर्नृपते तमिहाचर।।
चरितब्रह्मचर्यो हि प्रजायेत यजेत च।
पितृदेवमनुष्याणामानृण्यादनसूयकः।।
स यज्ञशीलः प्रजने निविष्टः
प्राग्ब्रह्मचारी प्रविभक्तभैक्षः।
आराधयेत्स्वर्गमिमं च लोकं
परं च मुक्त्वा हृदयव्यलीकम्।।
सम्यक्स्वधर्मं चरतो नृपस्य
द्रव्याणि चाभ्याहरतो यथावत्।
प्रवृद्धचक्रस्य यशोऽभिवर्धते
सर्वेषु लोकेषु चराचरेषु।।
इत्येवमाकर्ण्य विदेहराजो
वाक्यं समग्रं परिपूर्णहेतु।
अश्मानमामन्त्र्य विशुद्धबुद्धि
र्ययौ गृहं स्वं प्रति शान्तशोकः।।
तथा त्वमप्यद्य विमुच्य शोक
मुत्तिष्ठ शक्रोपम हर्षमेहि।
क्षात्रेण धर्मेण मही जिता ते
तां भुङ्क्ष्व कुन्तीसुत मावमंस्थाः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तविंशोऽध्यायः।।