शांतिपर्व
अध्यायः २७८
युधिष्ठिर उवाच।
बहूनां यज्ञतपसामेकार्थानां पितामह।
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः।।
भीष्म उवाच।
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्।
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च।।
नारद उवाच।
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः।
उञ्छवृत्तिर्ऋषिः कश्चिद्यज्ञं यष्टुं समादधे।।
श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला।
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्।।
उपगम्य वने पृथ्वीं सर्वभूताविहिंसया।
अपि मूलफलैरिष्टो यज्ञः स्वर्ग्यः परंतप।।
तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी।
यज्ञपत्नी समानीता सत्येनानुविधीयते।।
सा तु शापपरित्रस्ता तत्स्वभावानुर्तिनी।
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम्।।
अकामया कृतस्तत्र यज्ञो होत्रनुमार्गतः।
शुकस्य पुनराजातिरवध्यानादधर्मवत्।।
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः।
वचोभिरब्रवीत्सत्यं त्वयेदं दुष्कृतं कृतम्।।
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः।
मा भोःप्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः।।
ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत्।
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्।।
एवमुक्त्वा निवृत्ता सा प्रवृत्ता यज्ञपावकात्।
किंनु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्।।
स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः।
सत्येन स परिष्वज्य संदिष्टो गम्यतामिति।।
ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत।
साधु हिंसय मां सत्य हतो यास्यामि सद्गदितम्।।
पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा।
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्।।
ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा।
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्।।
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने।
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः।।
तस्य तेनानुभावेन मृगहिंसात्मनस्तदा।
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया।।
ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम्।
समाधानं च भार्याया लेभे स तपसा परम्।।
अहिंसा परो धर्मो हिंसाधर्मस्तथा हितः।
सत्यं तेऽहं प्रवक्ष्यामि नो धर्मः सत्यवादिनाम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टसप्तत्यधिकद्विशततमोऽध्यायः।। 278।।