शांतिपर्व
अध्यायः २६
युधिष्ठिर उवाच।
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ।।
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे।
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे।।
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम्।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम्।।
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम्।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः।।
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः।
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्।।
जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम्।
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः।।
प्राड्भुखं सीदमानं च रथात्पररथारुजम्।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्।।
यः सवाणधनुष्पाणिर्योधयामास भार्गवम्।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे।।
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे।।
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः।
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः।।
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्।
न बाणैः पातयामास सोऽर्जुनेन निपातितः।।
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्।
तदैवाविशदन्युग्रो ज्वरो मां मुनिसत्तम।।
येन संवर्धिता बाला येन स्म परिरक्षिताः।
स मया राज्यलुब्धेन पापेन गुरुधातिना।
अल्पकालस्य राज्यस्य कृते मूढेन पातितः।।
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति।।
तन्मे दहति गात्राणि यन्मां गुरुरभाषत।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः।।
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान्।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया।।
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे।।
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम्।।
अघातयं च यत्कर्णं समरेष्वपलायिनम्।
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः।।
अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्।।
तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम्।
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा।।
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम्।
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव।।
सोऽहमागस्करः पापः पृथिवीनाशकारकः।
आसीन एवमेवेदं शोषयिष्ये कलेवरम्।।
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम्।
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्।।
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन।
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः।।
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः।
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्।।
वैशंपायन उवचा।
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम्।
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः।।
व्यास उवाच।
अतिवेलं महाराज न शोकं कर्तुमर्हसि।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो।।
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम्।
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च।।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्।।
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे।।
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः।
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम्।।
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्क्ररु।
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षङ्विशोऽध्यायः।। 26।।