शांतिपर्व
अध्यायः २६८
भीष्म उवाच।
इत्युक्तः स तदा तेन तुलाधारेण धीमता।
प्रोवाच वचनं धीमाञ्जाजलिर्जपतांवरः।।
जाजलिरुवाच।
विक्रीणतः सर्वरसान्सर्वगन्धांश्च वाणिज।
वनस्पतीनोषधीश्च तेषां मूलफलानि च।।
अग्र्या सा नैष्ठिकी बुद्धिः कुतस्त्वामियमागता।
एतदाचक्ष्व मे सर्वं निखिलेन महामते।।
भीष्म उवाच।
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना।
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्।।
वेदाहं जाजले धर्मं सरहस्यं सनातनम्।
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः।।
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले।।
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्।
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा।।
रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम्।
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया।।
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः।
कर्मणा मनसा वाचा स धर्मं वेद जाजले।।
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये।
समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम्।
तुला मे सर्वभूतेषु समा तिष्ठति जाजले।।
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये।
आकाशस्येव विप्रेन्द्र पश्यँल्लोकस्य चित्रताम्।।
`कृपा मे सर्वभूतेषु समा तिष्ठति जाजले।
इष्टानिष्टनियुक्तस्य प्रियद्वेषौ बहिष्कृतौ।।'
इति मां त्वं विजानीहि सर्वलोकस्य जाजले।
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्।।
यथाऽन्धबधिरोत्मत्ता उच्छ्वासपरमाः सदा।
देवैरपिहितद्वाराः सोपमा पश्यतो मम।।
यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति।
तथाऽर्थकामभोगेषु ममापि विगता स्पृहा।।
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज।।
यदा न कुरुते भावं सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।।
न भूतो न भविष्योऽस्ति न च धर्मोस्ति कश्चन।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्।।
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव।
वाक्क्रूराद्दण्डपरुषात्स प्राप्नोति महद्भयम्।।
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्।
अनुवर्तामहे वृत्तमहिंस्त्राणां महात्मनाम्।।
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः।
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते।।
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा।।
नद्यां चेह यथा काष्ठमुह्यमानं यदृच्छया।
यदृच्छयैव काष्ठेन सन्धि गच्छेत केनचित्।।
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः।
तृणकाष्ठकरीपाणि कदाचिन्न समीक्षया।।
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन।
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने।।
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव।
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः।।
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः।
सहायवान्द्रव्यवान्यः सुभगोऽथ परस्तथा।।
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत।
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः।।
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा।
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते।।
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्।
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्।।
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन।
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन।
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने।।
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव।
न स धर्ममवाप्नोति इह लोके परत्र च।।
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैपिणः।।
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्।
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले।।
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः।
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा।।
अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले।
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम्।।
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः।
उपलभ्यान्तरा चान्यानाचारानवबुध्यते।।
ये च च्छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान्।
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च।
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे।।
मानुषा मानुपानेव दासभोगेन भुञ्जते।
वधबन्धनिरोधेन कारयन्ति दिवानिशम्।।
आत्मनश्चापि जानाति यद्दुःखं वधबन्धने।
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्।।
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः।
तानि जीवानि विक्रीय का मृतेषु विचारणा।।
अजोऽग्निर्वरुणो मेपः सूर्योऽश्वः पृथिवी विराट्।
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति।।
का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा।।
अदंशमशके देशे सुखसंवर्धितान्पशून्।
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः।।
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान्।
वाहसंपीडिता धुर्याः सीदन्त्यविधिना परे।।
न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा।
कृपिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा।।
भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः।
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान्।।
अध्न्या इति गवां नाम क एता हन्तुमर्हति।
महच्चकाराकुशलं वृथा यो गां निहन्ति ह।।
ऋपयो यतयो ह्येतन्नहुपे प्रत्यवेदयन्।
गां मातरं चाप्यवधीर्वृपभं च प्रजापतिम्।
अकार्यं नहुपाकापींर्लप्स्यामस्त्वत्कृते व्यथाम्।।
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्।
ऋपयस्ते महाभागाः प्रशस्तास्ते च जाजले।।
भ्रृणहं नहुषं त्वाहुर्न तं भोक्ष्यामहे वयम्।
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः।
ऋषयो यतयः शान्तास्तपसा प्रत्येषधयन्।।
ईदृशानशिवान्घोरानाचारानिह जाजले।
केवलाचरितत्वात्तु निपुणो नावबुध्यसे।।
कारणाद्धर्ममन्विच्छन्न लोकं विरसं चरेत्।।
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले।
समौ तावपि मे स्थातां न हि मे स्तः प्रियाप्रिये।
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः।।
उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते।
सततं धर्मशीलैश्च निपुणेनोपलक्षितः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टषष्ट्यधिकद्विशततमोऽध्यायः।। 268।।