शांतिपर्व
अध्यायः २६९
जाजलिरुवाच।
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया।
स्वर्गद्वारं च वत्तिं च भूतानामवरोत्स्यते।।
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जिवसि।
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज।।
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि।
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम्।।
तुलाधार उवाच।
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः।
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः।।
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः।
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः।।
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम्।
वेदवादानभिज्ञानां सत्याभासमिवानृतम्।।
इदं देयमिदं देयमिति नान्यच्चिकीर्षति।
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले।।
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः।
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा।
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम्।।
इष्टापूर्तादसाधूनां विदुषां जायते प्रजा।
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः।।
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः।
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम्।।
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।।
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे।
अकृष्टपच्या पृथिवी आशीर्भिर्वीररुधोऽभवन्।।
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन।
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन।।
जानन्तः सर्वथा साधु लुब्धा वित्तप्रयोजनाः।
स स्म पापकृतां लोकान्गुच्छेदशुभकर्मणा।।
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः।
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम।।
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम्।
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः।।
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम्।
सर्वभूतोपकारश्च फलभावे च संयमः।।
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मवृत्तयः।
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः।।
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः।
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि।।
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम्।
तृप्यन्ति तृप्यतो देवास्तृप्ताऽतृप्तस्य जाजले।।
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन।
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया।।
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा।
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते।।
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः।
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम्।।
यत्र गत्वा न शोचन्ति च च्यवन्ति व्यथन्ति च।
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्विकाः।।
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनाः।
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया।।
वनस्पतीनोषधीश्च फलमूलानि ते विदुः।
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः।।
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः।
परिनिष्ठितकर्माणाः प्रजानुग्रहकाम्यया।।
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान्।
प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै।
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले।।
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभाः।
तेन ते देवयानेन पथा यान्ति महामुने।।
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणाः।
उभौ तौ देवयानेन गच्छतो जाजले यथा।।
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च।
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः।।
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः।
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति।।
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः।
श्रद्धया गां पुरस्कृत्य तदृतं प्रब्रवीमि ते।।
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः।।
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च।
काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले।
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्।।
जाजलिरुवाच।
[न वै मुनीनां शृणुमः स्म तत्त्वं
पृच्छामि ते वाणिज कष्टमेतत्।
पूर्वेपूर्वे चास्य नावेक्षमाणा
नातः परं तमृषयः स्थापयन्ति।।
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम्।]
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम्।
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते।।
तुलाधार उवाच।
उत यज्ञा उतायज्ञा मस्वं नार्हन्ति ते क्वचित्।
आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा।
बालैः शृङ्गेण पादेन संभरत्येव गौर्मखम्।।
पत्नीव्रतेन विधिना प्रकरोति नियोजयन्।
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्।।
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः।
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भव।।
एतानीदृशकान्धर्मानाचरन्निह जाजले।
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान्।।
भीष्म उवाच।
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति।
उपपत्त्याऽभिसंपन्नान्नित्यं सद्भिर्निषेवितान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनसप्तत्यधिकद्विशततमोऽध्यायः।। 269।।