शांतिपर्व

अध्यायः २६७

Santi Parva (Sanskrit) · Adhyaya 267
अक्षर का आकार

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह।।

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः।
सागरोद्देशमागम्य तपस्तेपे महातपाः।।

नियतो नियताहारश्चीराजिनजटाधरः।
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः।।

स कदाचिन्महातेजा जलवासो महीपते।
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः।।

स चिन्तयामास मुनिर्जलमध्ये कदाचन।
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्।।

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे।
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै।।

स दृश्यमानो रक्षोभिर्जलमध्ये च भारत।
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै।।

अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि।
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम।।

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः।
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्।।

इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात्।
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम्।।

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा।
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम्।।

युधिष्ठिर उवाच।

किं कृतं दुष्करं तात कर्म जाजलिना पुरा।
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि।।

भीष्म उवाच।

अतीव तपसा युक्तो घोरेण स बभूव ह।
नद्युपस्पर्शनपरः सायंप्रातर्महातपाः।।

अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः।
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया।।

वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत।
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः।।

वातातपसहो ग्रीष्मे न चाधर्ममविन्दत।
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्।।

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः।
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः।।

आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो।
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः।।

स कदाचिन्निराहारो वायुभक्षो महातपाः।
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्।।

तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत।
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः।।

स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दंपती।
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः।।

यदा न स चलत्येव स्थाणुभूतो महातपाः।
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा।।

अतीतास्वथ वर्षासु शरत्काल उपस्थिते।
प्राजापत्येन विधिना विश्वासात्काममोहितौ।।

तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ।
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः।।

बुद्ध्वा च स महातेजा न चचाल च जाजलिः।
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत्।।

अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि।
आश्वासितौ निवसतः संप्रहृष्टौ तदा विभौ।।

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः।
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः।।

स रक्षमाणस्त्वण्‍डानि कुलिङ्गानां धृतव्रतः।
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः।।

ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः।
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान्।।

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः।
बभूव परमप्रीतस्तदा मतिमतां वरः।।

तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम्।
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह।।

जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान्।
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः।।

कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम्।
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः।।

तथा ते दिवसं चापि गत्वा सायं पुनर्नृप।
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः।।

कदाचिद्दिवसान्पञ्च समुत्पत्य विहगमाः।
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः।।

क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ।
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा।।

कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः।
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः।।

ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः।
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत्।।

स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः।
संभावितात्मा संभाव्य भृशं प्रीतस्तदाऽभवत्।।

स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्।
उदयन्तमथादित्यमभ्यागच्छन्महातपाः।।

संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः।
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै।।

अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः।
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले।।

वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः।
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज।।

सोमर्षवशमापन्नस्तुलाधारदिदृक्षया।
पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः।।

कालेन महताऽगच्छत्स तु वाराणसीं पुरीम्।
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः।।

सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः।
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्।।

तुलाधार उवाच।

आयानेवासि विदितो मम ब्रह्मन्न संशयः।
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम।।

सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्।
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन।।

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः।
क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया।।

जातपक्षा यदा ते च गता संचरितुं ततः।
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज।
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम।।

अमर्षवशमापन्नस्ततः प्राप्तो भवानिह।
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तषष्ट्यधिकद्विशततमोऽध्यायः।। 267।।