शांतिपर्व

अध्यायः २६४

Santi Parva (Sanskrit) · Adhyaya 264
अक्षर का आकार

नारद उवाच।

विनीय दुःखमबला साऽऽत्मनैवायतेक्षणा।
उवाच प्राञ्जलिर्भूत्वा तमेवावर्जिता तदा।।

त्वया सृष्टा कथं नारी मादृशी वदतां वर।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी।।

विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे।
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा।।

बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः।
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे।।

प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितृनपि।
अपध्यास्यन्ति यद्येवं मृतास्तेभ्यो विभेम्यहम्।।

कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता।।

यमस्य भवने देव पात्यन्ते पापकर्मिणः।
प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो।।

एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं महेश्वर।।

पितामह उवाच।

त्वं हिं संहारबुद्ध्या मे चिन्तिता रुषितेन च।
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय।।

एतदेवमवश्यं हि भविता नैतदन्यथा।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे।।

एवमुक्ता महाबाहो मृत्युः परपुरंजय।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी।।

पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी।
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः।।

प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मनि।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत।।

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते।
सा कन्याऽथ जगामास्य समीपादिति नःश्रुतम्।।

अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात्।।

सा तत्र परमं देवी तपोऽचरत दुश्चरम्।
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च।।

तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्।।

कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा।
तथैवैकपदे तात पुनरन्यानि सप्त सा।।

तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद।
भूयः पद्मायुतं तात मृगैः सह चचार सा।।

द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते।
पुनरेव ततो राजन्मौनमातिष्ठदुत्तमम्।।

अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव।
ततो जगाम सा कन्या कौशिकीं नृपसत्तम।।

तत्र वायुजलाहारा चचार नियमं पुनः।
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्।।

तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया।
ततो हिमवतो मूर्ध्निं यत्र देवाः समीजिरे।।

तत्राङ्गुष्ठेन राजेन्द्र निखर्वमचरत्तपः।
तस्थौ पितामहं चैव तोषयामास यत्नतः।।

ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः।
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः।।

ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्।
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये।।

तामधर्मभयाद्भीतां पुनरेव प्रयाचतीम्।
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः।।

अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे।
मयाऽप्युक्तं मृषा भद्रे भविता नेह किंचन।।

धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा।।

इमन्यं च ते कामं ददानि मनसेप्सितम्।
न त्वां दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः।।

पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्।।

सैवमुक्ता महाराज कृताञ्जलिरुवाच ह।
पुनरेव महात्मानं नेति देवेशमव्ययम्।।

तामब्रवीत्तदा देवो मृत्यो संहर मानवान्।
अधर्मस्ते न भविता यथा ध्यास्याम्यहं शुभे।।

`त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि।
अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम्'।।

यानश्रुबिन्दून्पतितानपश्यं
ये पाणिभ्यां धारितास्ते पुरस्तात्।
ते व्याधयो मानवान्घोररूपाः
प्राप्ते काले पीडयिष्यन्ति मृत्यो।।

सर्वेषां त्वं प्राणिनामन्तकाले
कामक्रोधौ सहितौ योजयेथाः।
एवं धर्मस्त्वामुपैष्यत्यमोघो
न चाधर्मं लप्स्यसे तुल्यवृत्तिः।।

एवं धर्मं पालयिष्यस्यथो त्वं
न चात्मानं मञ्जयिष्यस्यधर्मे।
तस्मात्कामं रोचयाभ्यागतं त्वं
सा त्वं साधो संहरस्वेह जन्तून्।।

सा वै तदा मृत्युसंज्ञा कृतास्त्री
शापाद्भीता बाढमित्यब्रवीत्तम्।
अथो प्राणान्प्राणिनामन्तकाले
कामक्रोधौ प्राप्य नित्यं निहन्ति।।

मृत्योर्ये ते व्याधयश्चाश्चुपाता
मनुष्याणां युज्यते यैः शरीरम्।
सर्वेषां वै प्राणिनां प्राणनान्ते
तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या।।

सर्वे देवाः प्राणिनां प्राणनान्ते
गत्वा वृत्ताः सन्निवृत्तास्तथैव।
एवं सर्वे मानवाः प्राणनान्ते
गत्वा वृत्ता देववद्राजसिंह।।

वायुर्भीमो भीमनादो महौजाः
सर्वेषां च प्राणिनां प्राणभूतः।
अनावृत्तिर्देहिनां देहपाते
तस्माद्वायुर्देवदेवो विशिष्टः।।

सर्वे देवा मर्त्यसंज्ञाविशिष्टाः
सर्वे मर्त्या देवसंज्ञाविशिष्टाः।
तस्मात्पुत्रं मा शुचो राजसिंह
पुत्रः स्वर्गं प्राप्यते मोदते हे।।

एवं मृत्युर्देवसृष्टा प्रजानां
प्राप्ते काले संहरन्ती यथावत्।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः
प्राप्ते काले संहरन्तीह जन्तून्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुष्षष्ट्यधिकद्विशततमोऽध्यायः।। 264।।