शांतिपर्व

अध्यायः २६३

Santi Parva (Sanskrit) · Adhyaya 263
अक्षर का आकार

स्थाणुरुवाच।

प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो।
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह।।

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः।
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो।।

प्रजापतिरुवाच।

न कुप्ये न च मे कामो नभवेयुः प्रजा इति।
लाघवार्थं धरण्यास्तु ततः संहार इष्यते।।

इयं हि मां सदा देवी भारार्ता समचोदयत्।
संहारार्थं महादेव भारेणाप्सु निमज्जती।।

यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन्।
संहारमासां वृद्धानां ततो मां क्रोध आविशत्।।

स्थाणुरुवाच।

संहारात्त्वं निवर्तस्य मा क्रुधो विवुधेश्वर।
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः।।

पल्वलानि च सर्वाणि सर्वं चैव तृणीलपम्।
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्।।

अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम्।
प्रसीद भगवन्साधो वर एष वृतो मया।।

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन।
तस्मान्निवर्ततामेतत्तेन स्वेनेव तेजसा।।

उपायमन्यं संपश्य भूतानां हितकाम्यया।
यथामी जन्तवः सर्वे न दह्येरन्पितामह।।

अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः।
`पुत्रत्वेनानुसंकल्प्ये तदाऽहं तप्य दानवैः।'
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना।।

त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम्।
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः।।

नारद उवाच।

श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्भनाः।
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि।।

ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः।
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः।।

उपसंहरतस्तस्य तमग्निं रोषजं तदा।
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः।।

कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा।
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता।।

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम्।
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ।।

तामाहूय तदा देवो लोकानामादिरीश्वरः।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति।।

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः।।

अविशेषेण चैव त्वं प्रजाः संहर कामिनि।
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि।।

एवमुक्ता तु या देवी मृत्युः कमलमालिनी।
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च।।

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः।
मानवानां हितार्थाय ययाचे पुनरेव ह।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिषष्ट्यधिकद्विशततमोऽध्यायः।। 263।।